________________
५२०
शिशुपालवधे
व्यर्था अकारि कृता । शिरोमात्रावशेषितस्य राहोरालिङ्गनसुखासंभवादिति भावः । मुरजिद् हरिः तत्काले तस्मिन्समये लोलाभिश्चञ्चलाभिरनलज्वालाभिरग्निदीप्तिभिः पल्लवितेन संजातपल्लवेन । तारकादित्वादितच् । तेन चक्रेण आक्रो. शत एव शपमानस्यैव तस्य शिशुपालस्य वपुर्मूर्धविकलं शिरोहीनं चक्रे चकार । शिरश्चिच्छेदेत्यर्थः । कर्तरि लिट् । राहोः शिरो वपुर्विकलमकारि, अस्य तु वपुः शिरोविकलं कृतमिति तात्पर्यम् । अत्र चक्रवर्णनेऽप्रस्तुतादाहुस्त्रीकुचकार्कश्यवर्णनात् 'प्रस्तुतत्वेन संबन्धस्तत्पर्यायोक्तमुच्यते' इति पर्यायोक्तम् ॥ श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षे
वपुष्टश्चैद्यस्य क्षणमृपिगणैः स्तूयमानं निरीय । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विमिता:
नरेन्द्ररौपेद्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ ७९ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये ,यङ्के शिशु.
पालवधो नाम विंशतितमः सर्गः ॥ २० ॥ श्रियेति ॥ अथ शिरश्छेदानन्तरं श्रिया शोभया जुष्टं सेवितं दिव्यैर्दिविभवैः सपटहरवैः सदुन्दुभिघोषैः पुष्पवरन्वितं क्षणम् । ऋषिगणैः स्तूयमानं तथा चैद्यस्य वपुष्टः शरीरतः । पञ्चम्यास्तसिल । निरीय निर्गत्य । 'इण् गतौ' इति धातोः 'समासेऽनपूर्व क्त्वो ल्यप् । प्रकाशेन आकाशे दिनकरकरानर्करश्मीन् विक्षिपत् उपेन्द्रस्येदमौपेन्द्रं वपुर्हरेविग्रहं विशत् प्रविशत् धाम शिशुपालतेजो विस्मिताक्षर्विकसितनयनैनरेन्द्र राजन्यैः वीक्षांबभूवे ईक्षितम् । ईक्षतेः कर्मणि लिट् । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम् । 'कृञ्चानुप्रयुज्यते लिटि' इति भुवोऽनुप्रयोगः 'भावकर्मणोः' इत्यात्मनेपदम् । अत्र भगवान्व्यासः-'ततश्चे. दिपतेदेहात्तेजोऽयं ददृशे नृपैः । उत्पपात यदा राजन् तदा तेजो विवेश च ॥ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥' इति । एतेन भगवद्वपुषोऽपि तदासक्तवचनसा(?)तारक इत्य. नुसंधेयम् । यदाह नारदः-'कामाद्गोप्यो भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । संबन्धाद्वृष्णयः स्नेहायूयं भक्त्या वयं प्रभो॥' इति । सूर्यसहस्राभिभाविनः शिशुपालतेजसो हरिशरीरप्रवेशवृत्तान्तस्यालौकिकस्याद्भुतस्य प्रत्यक्षलक्ष्यमा. णत्वाद्भाविकालंकारः । तदुक्तम् –'विनापराधेन कृतार्थक(?)पिना भाविकं तदुदाहृतम्' इति । मेघविस्फूर्जिता वृत्तम् । 'रसर्वश्वैयर्मो न्सररगुरुयुता मेघ. विस्फूर्जिता स्यात्' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधकाव्यव्याख्याने
सर्वकषाख्ये शिशुपालवधो नाम विंशतितमः सर्गः ॥ २० ॥