________________
विंशः सर्गः।
५१९
संतापितस्तापं प्रापितः स चासौ पायितः पानं कारितः । पिबतेय॑न्तात्कर्मणि क्तः । 'शाच्छासाह्वाव्यावेपां युक्' इति युगागमः । तस्य तापितपायितस्य तप्तसिक्तस्यासेः खड्गस्य लक्ष्मी प्रपेदे प्रापे । इति निदर्शनालंकारः अम्बुधरव्रणेति रूपकसंकीर्णः ॥
इति नरपतिरस्त्रं यद्यदाविश्वकार
प्रकुपित इव रोगः क्षिप्रकारी विकारम् । भिषगिव गुरुदोषच्छेदिनोपक्रमेण
क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ ७६ ॥ इतीति ॥ इतीत्थं क्षिप्रं करोतीति क्षिप्रकारी शीघ्रप्रयोक्ता अन्यत्र विकारकारी नरपतिश्चैद्यः प्रकुपितः प्रक्षुभितः सन् यद्यदस्त्रमाविश्वकार रोगो विकारमिव अथ क्रमवित्परिपाटीवेदी मुरारिर्भिषग्वैद्य इव गुरुदोषच्छेदिना गुरुदोषप्र. तिघातकेन दोषनिवर्तकेन चोपक्रमेणोपायेन । प्रत्यस्त्रप्रयोगेणेत्यर्थः । अन्यत्र महौषधप्रयोगेण तत्तदस्त्रं आशु शीघ्रम् । तद्विकारमिवेति भावः । प्रत्यहन्प्रतिजघान । हन्तेर्लङ् अदादित्वाच्छपो लुक् 'हल्याप्' इति लोपः । उपमा ॥
शुद्धिं गतैरपि परामृजुभिर्विदित्वा
बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धै
क्सिायकैरथ तुतोद तदा विपक्षः॥ ७७॥ शुद्धिमिति ॥ तदा तस्मिन्समये विपक्षोऽरिश्चैद्यः परामुत्कृष्टां शुद्धिं लोह. शुद्धिं गतैर्ऋजुभिरप्यविघट्टितमर्मभिरस्पृष्टमर्मस्थानैः तं हरिमजय्यं जेतुमशक्यम् । 'क्षय्यजय्यौ शक्यार्थे' इति निपातः । विदित्वा । अथास्मिन्नवसरे मर्माणि अतिगच्छन्तीति मर्मातिगैर्मर्मभेदिभिरनृजुभिर्वकैः नितरामशुद्धैरपवित्रैः वाच एव सायकास्तैः वाक्सायकैरिति रूपकम् । तुतोद व्यथयामास । चक्रप्रयोगस्यायमुपोद्धात इति भावः । अत्र वाक्सायकानां प्रसिद्धसाधनव्यतिरेकोक्तेर्व्यतिरेकरूपकयोः संकरः । वसन्ततिलका वृत्तम् ॥
राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन__व्यापारकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वथा । तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानल
ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥७॥ राद्विति ॥ येन चक्रेण सहसा झटिति अश्लथो दृढो य आलिङ्गनव्यापारः स एव एको मुख्यः । 'एके मुख्यान्यकेवलाः' इत्यमरः। विनोदस्तत्र दुर्ललितयो. र्लोलुपयो राहुस्त्रीस्तनयो राहुरमणीकुचयोः कार्कश्यलक्ष्मीः काठिन्यशोभा वृथा