________________
५१८
शिशुपालवधे रित्यर्थः । मेध्यमेघभवैः । 'दिगादिभ्यो यत्' । वारिभिः प्रथमं वैपरीत्येनापि 'प्रत्युतेति वैपरीत्ये' इति गणव्याख्याने । भूयसात्यन्तम् । भृशमित्यर्थः । दिदीपे प्रजज्वाल । ततः क्रमेणाशमच्छान्तोऽभूत् । शाम्यतेलुङि पुषादित्वाळलेरडादेशः । जलाहतोऽग्निज्वलितो नश्यति, प्रणयकोपोऽपि प्रियैः भृशायित्वा शाम्यतीति प्रसिद्धम् । उपमा ॥ परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः । प्रबलेषु कृती चकार विद्युद्यपदेशेन घनेष्वनुप्रवेशम् ॥ ७२ ॥
परित इति ॥ परितः प्रसभेन बलात्कारेण शरवर्नीरसेकैः । 'शरं नीरे शरो बाणे' इति विश्वः । अवसायमवसादं नीयमानः। कृती कुशलः । आश्रयमनातीत्याश्रयाशोऽग्निः । 'कर्मण्यण् । प्रबलेषु धनेषु मेघेषु विद्युद्व्यपदेशेन तडिच्छलेनानुप्रवेशं चकार । अस्याग्निर्विधुद्रूपेण मेघेष्वेव प्रविष्टः । बलवता. भिभूतस्य विदेशगमनं तदनुप्रवेशो वेति नीतेरिति भावः। अत्र विशेषणसाम्यादग्नावकृतदुर्बलत्वप्रतीतेः समासोक्तिः ॥
प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः । वलभित्प्रहितायुधाभिघातात्रुटितं पत्रिपतेरिवैकपत्रम् ।। ७३ ॥
प्रयत इति ॥ प्रशमं नाशं प्रयतः गच्छतः प्रैतीति प्रयन् तस्य प्रयतः । इणः शतरि यणादेशः। हुताशनस्याग्नेः संबन्धि मुक्तमूलं त्यक्तमूलं त्यक्ताश्रयमार्च
ोला । 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः । बलभिदा शक्रेण प्रहितस्य प्रयुक्त स्यायुधस्य वज्रस्याभिघातात्प्रहाराचुटितं छिन्नं पत्रिपतेः पत्रिराजस्य गरुत्मत एक पत्रं पक्षमिव क्वचिदालक्ष्यत अदृश्यत इत्युपमा । पुरा मातृदास्यविमोका. यामृतमाहरता गरुडेनेन्द्रप्रयुक्तवज्रगौरवादेकं पत्रं त्यक्तमित्यागमः ॥ व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनं घनाघनौघाः । उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ ७४ ॥
व्यगमन्निति ॥ घनाघनौघाः वर्षकाब्दसमूहाः । शक्रधातुकमत्तेभवर्षकाब्दा घनाघनाः' इत्यमरः । शिखिनमग्निं शमयित्वा सहसा दिशां मुखेभ्यो व्यगमन्नपसस्त्रः । गमे डि 'पुषादि-' इति च्लेरङादेशः । तथा हि महान्तो निसर्गतः स्वभावादेव परेषां उपकृत्य उपकारं कृत्वा उपरोधं न हि कुर्वते। महतां निष्फलावस्थानं परोपरोधायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ कृतदाहमुदर्चिपः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन । विगताम्बुधरत्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥ ७५ ॥
कृतेति ॥ उदर्चिषोऽग्नेः शिखाभिः ज्वालाभिः कृतदाहं विहिततपनं ततो नवेनाम्भसा मुहुः परिषिक्तं विगता अम्बुधरा एव व्रणा दोषा यस्य तद्गगर्न