________________
३०४
शिशुपालवधे
मिच्छुना । स्वपेः सन्नन्तादुप्रत्ययः । 'रुदविद-' इत्यादिना सनः कित्त्वात् 'वचि. स्वपि-' इत्यादिना संप्रसारणम् । मृगेन्द्रेण सिंहेन समया समीपे । 'समयानिकषाशब्दौ समीपे संप्रकीर्तितौ' इति सजनः। यातो गच्छतोऽपि । यातेर्लटः शत्रादेशः । सैन्यात्सेनातः। 'भीत्रार्थानां भय हेतुः' इत्यपादानत्वम् । न विव्यथे न बिभ्ये । 'व्यथ भयसंचलनयोः' इति धातो वे लिद । अथवा । तथाहीत्यर्थः । अन्यथा भीतत्वे कथं सुराजंभवं सुखेन राज्ञा भूयते । न कथमपीति भावः । राजा चायं मृगाणामिति भावः। 'कर्तृकर्मणोश्च भूकृजोः' इति कर्तरीषदाद चोपपदे भवतेः खल्प्रत्यये नलोपमुमागमौ । अर्थान्तरन्यासः ॥ उत्सेधनिघृतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहमाम् । नागैरधिक्षिप्तमहाशिलं मुहुर्वलं बभूवोपरि तन्महीभृताम् ।। ५३॥
उत्सेधेति ॥ नागैर्गजैरधिक्षिप्तास्तिरस्कृता महाशिला येन तद्वलं सैन्यं ध्वजैरुत्सेधेनौन्नत्येन निधूता अवगणिता महीरुहो येषु तेषाम् । 'उत्सेधश्वोच्छ्रयश्च सः' इत्यमरः । जनैरवरुद्ध प्रतिबद्धमुद्धतमुढेलं सिन्धुरंहो नदीवेगो येषां तेषां महीभृतां पर्वतानामुपरि मुहुर्बभूव । मार्गवशाद्भूयसो भूधरान्मुहुराररोहे. त्यर्थः । 'हयोघरुद्ध' इति पाठे हयौघेन घोटकसमूहेन रुद्धमित्यादि पूर्ववत् । भत्रावरोहणवदुत्कर्षश्वोपरिभावो विशेषणवैभवात्प्रतीयत इति तदभेदेनोपरिभावस्य बलभूधरविशेषणपदार्थहेतुकत्वाच्छेपप्रतिभोत्थापितकाव्यलिङ्गविशेषः ।। श्मश्रूयमाणे मधुजालके तरोगजेन गण्डं कपता विनिते। क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ ५४ ॥
श्मश्रूयेति ॥ तरोवृक्षस्य इमधूयमाणे श्मश्रुवदाचरति । तद्वदालम्बमान इत्यर्थः । उपमालंकारः। श्मश्रुशब्दादाचारे क्यङन्तालटः शानजादेशः 'अकृसार्वधातुकयोः' इति दीर्घः । गण्डं कपोलं कषता तरुस्कन्धे कण्डूयमानेन गजेन मधुजालके क्षौद्रपटले विधूनिते कम्पिते सति । धूजो प्यन्तात्कर्मणि क्तः । 'धूप्रीजोर्नुग्वक्तव्यः' इति नुगागमः। अक्षुद्रतराभिरतिस्थूलाभिः क्षुद्राभिः सरघाभिः । 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका' इत्यमरः । विदश्यमानेन चक्षुभिभिंद्यमानेन जनेन समाकुलं व्यग्रं यथा तथा दुद्रुवे पलायितम् । भावे लिट् । स्वभावोक्तिरुत्तोपमासंसृष्टा ॥ नीते पलाशिन्युचिते शरीरवद्गजान्तकेनान्तमदान्तकर्मणा । संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥५५ ।।
नीत इति ॥ उचिते परिचिते पलाशिनि द्रुमे । 'पलाशी दुद्रुमागमाः' इत्यमरः । शरीरवत्पूर्वशरीरवत् । 'तत्र तस्येव' इति वतिप्रत्ययः । अदान्तकर्मणा दुर्दान्तव्यापारेण गजोऽन्तक इवेत्युपमितसमासः साहचर्यात् । तेन गजान्त केनान्तं नाशं नीते गमिते सति प्लवैर्गच्छन्तीति प्लवंगमाः कपयः । 'गमेश्च' इति