________________
द्वादशः सर्गः।
खच्प्रत्यये मुमागमः । आत्मानो जीवा इवापरं क्षमारुहं देहमिव क्षणात्सं. चेरुः । संप्रविष्टा इत्यर्थः। अनेकेवशब्दवाक्यार्थीपमा । सा च शरीरवदिति तद्धितगता अन्यत्र समासगतेति संकरः ॥ प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गहरानपि । साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि॥५६॥
प्रतानिति ॥ क्वचिदतीव नितान्तं प्रवान्प्रवणान् । अन्यत्रानुकूलान्क्वचिदुद्धतिं श्रयन्तीत्युद्धतिश्रितः औन्नत्यभाजः औद्धत्यभाजश्च । श्रयतेः विप् तुक् । क्वचिप्रकाशान्प्रकटाननवगूढवृत्तींश्च क्वचिदतिगहरानपि । अपि चार्थे । अप्रवेशान् अन्यत्र गूढांश्च । इतीत्थं साम्यादपेतान्विषमरूपाविषमवृत्तांश्च । अत एव गुरू. न्महतोऽपि पूज्यानपि गिरीस्तदा हरेर्वा हिनी सेना अतिचक्रामातीत्य गता, उल्लविता च । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥' इति स्मरणादिति भावः । गुरूणामप्यतिक्रम इति विरोधेऽपिशब्दः । स चोक्तवैषम्यदोषोद्धाटनेन परिहृत इति विरोधाभासः । स च गुरूनिति वाच्यप्रतीयमानयोरभेदाध्यवसायाच्छ्रेषमूलातिशयोक्त्युत्थापित इति संकरः ॥ स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया । अम्भोभिरुहाचिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः॥५७॥
स इति ॥ स हरिः परितः समन्तादपथान्यपमार्गान्यपि। 'पथो विभाषा' इति निषेधविकल्पात् 'ऋक्पू:-' इत्यादिना समासान्तः । 'अपथं नपुंसकम्' इति नपुंसकत्वम् । व्याप्तवत्यापि सर्वान्पथो व्यामोतीति सर्वपथीना । 'तत्सर्वादे:-' इत्यादिना खप्रत्ययः । तया सर्वपथीनया तया स्वसेनया निमित्ते अम्भोभिरुल्ल. चितानि युगपदखिलसेनाप्रवेशेन प्रतीपगमनादुपर्याक्रान्तानि तुङ्गरोधांसि यासां ताः निम्नं गच्छन्तीति निम्नगा नद्यः प्रतीपनाम्नीः कुरुते स्म । प्रतिगता उत्तानगा आपो यासां ताः प्रतीपाः । 'ऋक्प:-' इत्यादिना समासान्तः । 'यन्तरुपसर्गेभ्योऽप ईत्' इतीकारः । अथवा प्रतीपं निम्नगानामविरुद्धं नाम उत्तानगा इति नामधेयं यासां ताः प्रतीपनान्यः । 'अनउपधालोपिनोऽन्यतरस्याम्' इति ङीप् । तास्त. था चकारेत्यर्थः । अत्र निम्नगानां प्रतीपनामासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ।। यावयगाहन्त न दन्तिनां घटास्तुरंगमैस्तावदुदीरितं खूरैः । क्षिप्तं समीरः सरितां पुरः पतञ्जलान्यनैपीद्रज एव पङ्कताम् ॥५८॥
यावदिति ॥ दन्तिनां घटा गजबजा यावन्न व्यगाहन्त न व्यलोडयंस्तावतुरंगमैः कर्तृभिः खुरैः करणरुदीरितमुत्थापितम् । अथ समीरैः मारुतैः क्षिप्तं विकीर्णम् । अत एव पुरो गजप्रवेशात्प्रागेव पतगजो भूरेणुरेव सरितां जलानि पङ्कतामनैषीनिनाय । नयतेर्द्विकर्मकत्वाल्लङि वृद्धिः । अत्रापि सरितां पङ्कत्वा. संबन्धेऽपि संबन्धोक्तेः पूर्ववदतिशयोक्तिः ॥