________________
द्वादशः सर्गः।
३०३ भग्नगुमाश्चकुरितस्ततो दिशः समुल्लसत्केतनकाननाकुलाः। पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाणाचलदुर्गमा भुवः ॥४९॥
भग्नेति ॥ दन्तिनो गजा इतस्ततो भग्नद्रुमाः स्वभग्नाखिलवृक्षाः दिशः समुल्लसद्भिः केतनैरेव काननैराकुलाः संकीर्णाश्चक्रुः । तथा तरसा बलेन पिष्टानि चूर्णितान्यद्रिपृष्ठानि यासु ता भुवो भूमीः चलद्भिर्निजाङ्गैरेवाचलैर्दुर्गमा दुष्प्रा. पाश्चक्रुः । अत्र केतनेष्वङ्गेषु च काननाचलत्वरूपणाद्रूपकालंकारः। तेन गजानां पुरातनसृष्टिसंहारेण सृष्ट्यन्तरप्रवर्तनरूपं लोकोत्तरं सामर्थ्य गम्यत इत्यलंका. रेण वस्तुध्वनिः ॥ आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः। उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥५०॥
आलोकेति ॥ हरिर्महीधरानधिश्रयन्तीः परःशताः शतात्पराः । असंख्याता इत्यर्थः । 'परःशताधास्ते येषां परा संख्या शतादिकात्' इत्यमरः। 'पञ्चमी' इति योगविभागात्समासः। राजदन्तादित्वादुपसर्जनस्यापि शतशब्दस्य परनि. पातः । पारस्करादित्वात्सुडागमः । गजताः गजसमूहान् । 'गजाच्चेति वक्तव्यम्' इति सामूहिकस्तत्प्रत्ययः । उपत्यकाभ्य आसन्नभूमिभ्यः। 'उपत्याकानेरासन्ना भूमिः' इत्यमरः। 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति त्यकन्प्रत्ययः । उत्पातवातेन । तत्प्रतिकूलं पतन्तीति प्रतिकूलपातिनीः । ऊर्ध्वगामिनीरित्यर्थः । बृहतीः शिला इवेत्युत्प्रेक्षा । आलोकयामास ॥ शैलाधिरोहाभ्यसनाधिको रैः पयोधरैरामलकीवनाश्रिताः। तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥५१॥
शैलेति ॥ शैलाधिरोहाभ्यसनेन पर्वतारोहणाभ्यासेनाधिको रैरत्युन्नतैः पयोधरैः स्तनैरुपलक्षिता आमलकीवनाश्रिता धात्रीवनगताः । पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । 'पर्वताच्च' इति छप्रत्ययः। तेषां प्रमदाः । विकासेन विस्मयकृतविस्तारेण विस्फारिता विवर्तिता विभ्रमा विलासा यां तानीक्षणानि यासां तास्तथा सत्यः तं हरिं चचायिरे ददृशुः । 'चाय पूजानिशामनयोः' इति धातोः कर्तरि लिट् । निशामनं दर्शनम् । 'निरीक्षणनिशामने' इति दर्शनपर्यायेपु भट्टमल्लः । एतेन हरेर्लोकोत्तरं लावण्यं व्यज्यते इति वस्तुना वस्तुध्वनिः । स्वभावोक्तिवृत्त्यनुप्रासयोः संसृष्टिः ॥ सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयापि विव्यथे कथं सुराजभवमन्यथाथवा ॥५२॥
सावज्ञमिति ॥ सावज्ञमनादरं यथा तथा विलोचने सकृदेकवारम् । 'एकस्य सकृत्' इति सकृदर्थे निपातः । क्षणमुन्मील्योन्मिष्य । पुनः सुषुप्सुना स्वप्नु