________________
३०२
शिशुपालवधे उच्चैरिति ॥ तदा तस्मिन्समये अतिदूराद्गच्छतोऽपि तस्य हरेः संबन्धिनीमुच्चैर्गतामत्यूर्ध्वमुन्नताम् , अन्यत्रोर्वलोकेष्वतिव्याप्तामस्खलितामभङ्गुरां, सत्यां च गरीयसीमतिमहतीं, पूज्यां च । बलरेणुसंहति सेनारेणुसंघातमेके कतिपये महीभृतः पर्वता आज्ञां शासनं, अपरे महीभृतो राजानश्च । शिरोभिः शेखरैः, शीर्षैश्च समूहः संवहन्ति स्म । वहेलिटि झेरुसि 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अत्र हरिमहिमवर्णनायामुभयेषामपि महीभृतां प्रकृतत्वात्केवलप्रकृता. स्पदा तुल्ययोगिता श्लेषप्रतिभोत्थापिता चेति संकरः ॥ प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति । सेना मुरारेः पथ एव सा पुनर्महामहीधान्परितोऽध्यरोहयत् ॥४६॥
प्रायेणेति ॥ प्रायेण प्राचुर्येण नीचान्कुब्जानपि मेदिनीभृतोऽद्रीञ्जनो लोकः समेन सुगमेन पथा मार्गेणैवाधिरोहति । सा मुरारेः सेना पुनः पथो मार्गानेव महामहीध्रान्महागीन्परितोऽध्यरोहयत् । लोके हि सति क्षुण्णेऽध्वनि तेन शैला. रोहणसंभवः। सेना तु सर्वपथातिरेकिण्यभूत्। पूर्वापराः सहस्रं पन्थानः स्वारोह. णेन प्रवर्तिता इत्यर्थः। रोहतेर्गत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना पथामणिकर्तृणां णौ कर्मत्वम् । महीं धरन्तीति महीध्राः मूलविभुजादित्वात्कः । अत्र सेनायाः पथां शैलाधिरोहणेनोपमानाजनादाधिक्यकथनाव्यतिरेकः ॥ दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोचयानारुरुहुर्महीयसः । तिर्यकटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ॥४७॥
दन्ताग्रेति ॥ द्वाभ्यां पिबन्तीति द्विपाः । 'सुपि' इति योगविभागास्कप्रत्ययः । उन्मुखा उन्नमितमुखाः सन्तः दन्ताप्रैर्निभिन्ना विदारिताः पयोदाः शृङ्गगता । यस्मिन्कर्मणि तद्यथा तथा तिर्यगूर्ध्वमुखत्वात्तिरश्चीनं यथा तथा कटेभ्यः प्लवन्ते क्षरन्तीति कटप्लाविनीभिर्मदाम्बुनिम्नगाभिर्मदजलप्रवाहैविपूर्यमाणानि श्रवणोदराणि यस्मिन्कर्मणि तद्यथा तथा महीयसो महत्तरान्शिलोच्चयानारुरुहुः । स्वभावोक्तिः ॥ श्योतन्मदाम्भःकणकेन केनचिजनस्य जीमूतकदम्बकाता । नागेन नागेन गरीयसोचकैररोधि पन्थाः पृथुदन्तशालिना ॥४८॥
श्चयोतदिति ॥ श्योतन्तः क्षरन्तो मदाम्भःकणा यस्य तेन । शैपिकः कप्प्रत्ययः । जीमूतकदम्बकस्येव द्युत् द्युतिर्यस्य तेन । पृथुभ्यां दन्ताभ्यां शालत इति तच्छालिना। गरीयसा गुरुतरेणोच्चकैरुन्नतेन केनचिन्नागेन गजेन जनस्य पन्था मार्गः यथारोधि अगेनाचलेन न तथारोधि रुद्धः। मत्तमातङ्गस्य दुरा. सदत्वाच्छैलवदनतिक्रमणीयत्वादिति भावः । अत एवोपमानादगादुपमेयस्य नागस्याधिक्यान्यतिरेकः ॥