________________
द्वादशः सर्गः।
३०१ कैदारिकाणामभितः समाकुलाः
सहासमालोकयति स्म गोपिकाः ॥ ४२ ॥ स इति ॥ यावच्छुकान्कीरानपासितुं गतास्तावन्मृगैरुपद्रुतश्रियामुपद्रुतसंपदां व्रीहिणां व्रीहिमताम् । 'ब्रीह्यादिभ्यश्च' इतीनिप्रत्ययः । कैदारिकाणां क्षेत्रसमूहानाम् । 'पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु । कैदारकं स्यात्कदार्य क्षेत्रं कैदारिकं गणे ॥' इत्यमरः । 'ठञ् कवचिनश्च' इति चकाराष्टुञ्प्रत्ययः । कृद्योगात्कर्मणि षष्ठी। गोपिकाः गोत्रीरभितः समाकुला व्यग्राः। उभयतः समाकृष्यमाणाः सतीरित्यर्थः । स हरिः सहासमालोकयति स्म । अत्र सहासावलोकनस्य विशेषणगत्या समाकुलपदार्थहेतुकत्वात्काव्यलिङ्गभेदः॥
व्यासे मसानवधानतः पुरा __ चलत्यसावित्युपकर्णयन्नसौ । गीतानि गोप्याः कलमं मृगव्रजो
न नूनमत्तीति हरिय॑लोकयत् ॥ ४३ ॥ व्यासेद्धमिति॥ गोप्याः शालिगोप्याः। गौरादित्वान्डी । गीतान्युपकर्णयशृण्वन् असौ मृगवजो नूनं निश्चितं कलमं नात्ति न खादति इति । किं कलमभक्षणे गीतश्रवणविशेष इत्यत आह-असौ गोपी अस्मान्व्यासेद्धं निवारयितुम. वधानतो गीतैकाग्र्यात्पुरा चलति चलिष्यति । यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । इतीत्थं वितर्कयन्निति शेषः । हरिय॑लोकयत् । अत्र मृगाणां कलमखादननिवृत्तेीतासक्तिनिमित्तायास्तदाकर्णनसुखभङ्गहेतुकत्वमुत्प्रेक्ष्यते ॥ लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः । शौरेरुपानूपमपाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ ४४ ॥
लीलेति ॥ अनुगता आपो येपु ते अनूपा जलप्रायदेशाः। 'जलप्रायमनूपं स्थात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' इति बहुव्रीहिः 'ऋक्पू:-' इत्यादिना समासान्तः 'ऊदनोदेशे' इत्यूकारः । तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । लीलया चलति चलनशीले स्त्रियाश्चरणे अरुणोत्पले इव तयोः स्खलन्त्यौ ये तुलाकोटी नूपुरौ । 'पादाङ्गदं तुलाकोटिमञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः। तयोनिनाद इव कोमलो मधुर उन्मदसारसारवः मत्तहंसकूजितम् । 'चक्राङ्गसारसौ हंसे' इति शब्दार्णवे। शौरेर्मनः स्वनान्तरादपाहरत् । अत्र मनोहरणस्य लीलेत्यादिविशेषणार्थहेतुकत्वादुपमासंकीणं काव्यलिङ्गम् ॥ उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः । एके समूहुर्बलरेणुसंहति शिरोभिराज्ञामपरे महीभृतः॥४५॥
शिशु० २६