________________
३००
शिशुपालवधे पश्यन्कृतार्थैरपि बल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् । एकान्तमौग्ध्यानवयुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥३९॥
पश्यन्निति ॥ एकान्तमौग्ध्येनात्यन्तमुग्धतया अनवबुद्धविभ्रमैरज्ञातवि. लासैः किंतु प्रसिद्धो विस्तार एव गुणो ये तैः । अतिविशालैरित्यर्थः । कृताथैरपि । सकृद्दर्शनाल्लब्धविस्तारफलैरित्यर्थः । विलोचनैर्जनाधिनाथं कृष्णं पश्यबल्लवीजनो गोपाङ्गनाजनः वितृष्णतां तृप्तता न ययौ । भूयो भूयः पश्यन्नपि नालंबुद्धिमवापेत्यर्थः । तृप्तिकारणे दर्शने सत्यपि तृप्तिकार्यानुत्पत्तेविशेपोक्तिः । सा कृष्णस्य मदनकोटिलावण्यलक्ष्मी व्यञ्जयति ॥ प्रीत्या नियुक्ताँल्लिहतीः स्तनंधयान्निगृह्य पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदध्यौ दुहतः स गोदुहः ४०
प्रीत्येति ॥ नियुक्तान्वामपादे एव संयतान्स्तनं धयन्ति पिबन्तीति स्तनंध. यान्वत्सान् । 'नासिकास्तनयोधेिटोः' इति धेटः खशप्रत्ययः । प्रीत्या वत्सांल्लि. हतीर्जिया स्वादयन्तीः रोहिणीर्गाः । 'अर्जुन्यन्या रोहिणी स्यात्' इत्यमरः । पयः क्षीरं जानुनोरुभयेन जानुद्वयेन पारी दोहनपात्रीम्। 'पारी पात्रीपरागयोः' इति विश्वः । निगृह्य निरुध्य । बर्विष्णुधाराध्वनि बर्धनशीलक्षीरधाराशब्दं यथा भवति तथा दुहतः प्रपूरयतः । दुहेर्लटः शतरि शप् दुह्याच्-' इति हिकर्मकत्वम् । गां दुहन्तीति गोदुहो गोदोहकान् । 'सत्सूद्विप-' इत्यादिना क्विम् । स हरिश्चिरं निदध्याववलोकयति स्म । 'निध्यानमवलोकनम्' इति वैजयन्ती । स्वभाबोक्तिः॥ अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरो दुधुक्षतः । वर्गाद्वा हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमतल्लिकाम् ॥४१॥
अभ्येति ॥ अभ्याजतः दोग्धुमभिमुखमागच्छतः । अजेलटः शत्रादेशः । निर्याणं पादबन्धनं दाम । 'निर्याणं दाम संदानं पशूनां पादबन्धने' इति वैजयन्ती । तद्धस्ते यस्य तस्य निर्याणहस्तस्य दुधुक्षतो दोग्धुमिच्छतः। दोग्धुरिति शेषः । दुहेः सन्नन्ताल्लटः शत्रादेशः घत्वधत्वे । पुरोऽग्रेऽभ्यागतोऽभिमुखमागतस्तूर्णस्तनपाने त्वरमाणस्तर्णकोऽतिबालो वत्सो यस्याम्ताम् । सद्योजातस्तु तर्णकः' इत्यमरः । गवां वर्गाद्गोवजार्द्धकृतिचार हुंकारमनोहरं यथा तथा निर्यनी निर्गच्छन्तीम् । इणः शतरि डीए । इणो यणादेशः । प्रशस्तां गां गोमतलिकाम् । 'प्रशंसावचनैश्च' इति नित्यसमासः । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजी । प्रशस्तवाचकान्यमूनि' इत्यमरः । मधोररिर्मधुसूदन ऐक्षत इक्षितवान् । ईक्षते. र्लङि 'आडजादीनाम्' इत्याद । 'आटश्च' इति वृद्धिः । स्वभावोक्तिः ॥
स व्रीहिणा यावदपासितुं गताः
शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।