________________
द्वादशः सर्गः।
२९९ प्रसादिनोऽनुग्रहशीलस्य । अन्यत्र प्रसादगुणयुक्तान् । 'प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते' इति अनुज्झितौ गोत्रसंविदौ कुलाचारौ येन तस्य । यादववंशोत्पन्नस्येत्यर्थः । अन्यत्र कुलनामनी यैस्तान् । वंशनामाङ्कितानित्यर्थः । 'संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु' इति । वैजयन्ती । एवंभूतस्योपेन्द्रस्य हरेर्गुणान्समुद्दिश्याधिकृत्य भूयसो बहुलाश्लोकान्स्तुतिपद्यानि पुरोऽग्रे पठन्ति स्म । अत्रोपेन्द्रस्य तच्छोकानां च वर्ण्यत्वेन प्रकृतानां श्लेषसाधादौपम्यगम्यतायां श्लेषप्रतिभोत्थापिता केवलप्रकृतगोचरा तुल्ययोगिता श्लेषश्च प्रकृतिषु प्रत्ययेषु नेति ॥ निःशेपमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् । ग्रामेषु सैन्यैरकरोदवारितः किमव्यवस्थां चलितोऽपि केशवः॥३६॥
निःशेषमिति ॥ चलन्कल्पान्ते क्षुभितः समुद्रोऽपि जलैनिःशेषमाकान्तमहीतलः सन् स्थितिं मर्यादा वेलालङ्घनलक्षणां समुज्झति त्यजति । केशवस्तु चलितोऽपि प्रस्थितोऽप्यवारितैरपरिमितैः सैन्यैनिःशेषमाकान्तमहीतलः सन् ग्रामेषु अव्यवस्थाममर्यादां किमकरोत् । नाकरोदेवेत्यर्थः। अत्रोपमानात्समुद्रादुपमेय. स्य केशवस्य मर्यादानतिक्रमेणाधिक्यकथनाव्यतिरेकालंकारः । लक्षणं तूक्तम् ॥ कोशातकीपुष्पगुलुच्छकान्तिभिमुखैविनिद्रोल्बणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् ॥३७॥
कोशातकीति॥ कोशातकीपुप्पगुलुच्छकान्तिभिः पटोलीप्रसूनपुच्छसच्छायैः। स्मरपाण्डुरै रित्यर्थः । 'कोशातकी पटोली स्यात्' इति हलायुधः। मुखैरुपलक्षिताः विनिद्रं विकसितमत एवोल्वणं विपुलं बाणं नीलसैरेयपुष्पमिव चक्षुर्यासां ताः । 'नीली झिण्टी द्वयोर्बाणा' इत्यमरः। ग्रामेषु भवा ग्रामीणाः । 'ग्रामाद्यखजौ' इति खञ्प्रत्ययः। ताश्च वध्वः श्रियस्तं कृष्णम् । ग्रामान्तर्गामिनमिति भावः। जनैश्चमूचरैरलक्षिता । वृतिभिस्तिरोहिता इत्यर्थः । चिरं वृतीनां कण्टकशाखाबरणानामुपर्युपरितनावकाशे व्यलोकयन् । उपमास्वभावोत्त्योः संकरः ॥ गोष्टेषु गोष्टीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः । ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसंकीर्तनभावितात्मनः॥३८
गोप्टेप्विति ॥ स कृष्णो गावस्तिष्टन्त्येग्जिनि गोष्टानि गोस्थानानि । 'गोष्ठं गोस्थानकम्' इत्यमरः । 'सुपिस्थः' इति बाप्रत्ययः । 'अम्बाम्बगोभूमि-' इत्यादिना पवम् । गोष्टीपु वार्तासु । गोष्टी सभायामालापे' इति विश्वः । कृतानि मण्ड. लासनानि मण्डलाकारेणोपवेशनानि यैस्तान्मुहुः सनादं श्वेलाट्टाहासाधारावसहितं यथा तथोत्थाय वल्गत उत्प्लवमानान्कपिशं मद्यम् । 'कश्यं मद्यं च मैरेयं कपिशं कापिशायनम्' इति हलायुधः। पिपासतो मुहुर्मुहुः पातुमिच्छतः । पिबतेः सन्नन्ताल्लटः शतरि शप् । स्वगोत्रसंकीर्तने स्वनामसंकीर्तने भावितात्मनः प्रवर्तितचित्तान् । कृष्णनामानि गायत इत्यर्थः । ग्रामेषु भवान्ग्राम्यान् । घोषजनानित्यर्थः । 'ग्रामाद्यखौ' इति यप्रत्ययः । अपश्यदालोकितवान् । स्वभावोक्तिः ॥