________________
२९८
शिशुपालवधे अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धतः । दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः॥३२॥
अध्यध्वमिति ॥ दक्षस्य भावो दाक्ष्यं कौशल्यं सद्यः फलदम् । कुतः, यद्यस्मादध्यध्वमध्वनि । विभत्त्यर्थेऽव्ययीभावः, 'अनश्च' इति समासान्तोऽप्रत्ययः 'नस्तद्धिते' इति टिलोपः । आरूढवतैवारुह्मैव स्थितेन । निष्ठेति रुहेः क्तवतुप्र. त्ययः। जनं शनैः पश्चादागच्छन्तं स्वजनं प्रतीक्षणमाणेन । केनचित्पुंसेति शेषः । मुहुर्धतः स्थापितोऽपि दासेरयुवा तरुणोष्ट्रः । विशेषणसमासः । अग्रतो वनाव. लीश्वखाद । पुरः पिचुमर्दादिकं भक्षयन्नास्त इत्यर्थः । न हि कुशलो वृथा कालं यापयतीति भावः । अत्र दाक्ष्यसाफल्यस्य सामान्यस्य तद्विशेषेण दासेरकौशलेन समर्थनाद्विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥ शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः । एकातपत्रा पृथिवीभृतां गणैरभूद्वहुच्छत्रतया पताकिनी ॥३३॥
शौरेरिति ॥ शौरेः कृष्णस्य पताकिनी सेना । व्रीह्यादित्वादिनिः । प्रतापेन हरितेजसा उपनतैननैः । विधेयैरित्यर्थः । अत एवेतस्ततः समागतैः पार्श्वदेशादागतैः प्रश्रयनम्रमूर्तिभिर्हरिसंनिधौ विनयनम्रविग्रहैः पृथिवीभृतां राज्ञां गणैर्हेतुना बहुच्छत्रतया असंख्यातपत्रवत्तया निमित्तेन एकानि केवलान्यातपत्राणि यस्याः सा एकातपत्रा केवलातपत्रमय्यभूत् । आतपत्रातिरिक्तं न किंचिदलक्ष्यतेत्यर्थः । 'एके मुख्यान्यकेवलाः' इत्यमरः । बहुच्छत्राप्येकच्छत्रेति विरो. धभासनाद्विरोधाभासोऽलंकारः ॥ आगच्छतोऽनूचि गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः। दूरादपावर्तितभारवाहणाः पथोऽपसत्रुस्त्वरितं चमूचराः॥३४॥
आगच्छत इति ॥ अन्वञ्चतीत्यन्वङ् तस्मिन्ननूचि पृष्ठदेशे। 'ऋत्विग्-'इत्यादिनाञ्चेः क्विन्प्रत्ययः । आगच्छतो गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः संभ्रान्तवधूकाश्चमूचराः दूरादेवापावर्तिता अपसारिता भारस्यान्नादेर्वाहना भारवाहणा भारवाहिन उष्ट्रादयो यैस्ते तथा सन्तः । 'वाहनमाहितात्' इति णत्वम् । वहेय॑न्तात्कर्तरि ल्युट् । त्वरितं शीघ्रं पथो मार्गादपसस्रुरपजग्मुः । स्वभावोक्तिः॥
ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रसंविदः । श्लोकानुपेन्द्रस्य पुरःस्मभूयसो गुणान्समुद्दिश्य पठन्ति बन्दिनः३५
ओजस्वीति ॥ बन्दिनः स्तुतिपाठकाः । 'बन्दिनः स्तुतिपाठकाः' इत्यमरः । ओजस्विवर्णस्य तेजस्विवर्णस्य क्षत्रजातेयंदुज्वलं वृत्तमुदग्रव्यापारः विजयाख्यं तेन शालत इति ओजस्विवर्णोज्वलवृत्तशाली तस्य, अन्यत्र ओजस्विवर्णैः समाः सभूयिष्टाक्षरैरुज्वलास्ते च ते वृत्तशालिनः वसन्ततिलकादिच्छन्दोविशेषशालिनश्च । 'वृत्तं चारित्रच्छन्दसोरपि' इति विश्वः । तान्प्रसादोऽस्यास्तीति प्रसादी तस्य