________________
द्वादशः सर्गः।
न्तः । 'अपथं नपुंसकम्' इति नपुंसकत्वम् । निन्यिरे नीताः । अत्रापि द्विपविशेषणानां तदुपमेयहेतुकत्वात्काव्यलिङ्गं सत्स्वभावोक्त्या संकीर्यते ॥ तैवैजयन्तीवनराजिराजिभिगिरिप्रतिच्छन्दमहामतङ्गजैः। बह्वयः प्रसर्पजनतानदीशते वो बलैरन्तरयांवभूविरे ॥ २९॥
तैरिति ॥ वैजयन्त्यः पताकास्ता वनराजय इव ताभी राजन्तीति तथोक्तैः गिरीणां प्रतिच्छन्दाः प्रतिनिधयः । तत्सदृशा इत्यर्थः । एतस्मादेव स्पष्टोपमालिङ्गादन्यत्राप्युपमितसमासाश्रयणम् । ते महामतङ्गजा येषु तैः । जनता जनसमूहस्ता नद्य इव तासां शतानि प्रसर्पन्ति प्रवहन्ति येषु तैर्बलैस्तथोक्तैः सैन्यैः । वह्वयो बहवः । 'बबादिभ्यश्च' इति विकल्पादीकारः । भुवो भूमयः अन्तरयांबभूविरेऽन्तरा दूराः कृता इति । अतिक्रान्ता इत्यर्थः । न केवलं रैवतकाद्रिरेवेति भावः । बलैवैपुल्यादाच्छादिता इत्यर्थः । उक्तविशेषणावगतसादृश्यादगृहीतभेदाः कृता इति च गम्यते । एतेनाभेदाध्यवसायादेवास्याक्रमणरूपान्तरीकरणस्य बलविशेपणावनतसादृश्यस्य हेतुत्वात्तदङ्गभूतोपमासंकीर्ण पदार्थहेतुकं काव्यलिङ्गं श्लेषमूलाभेदातिशयोक्त्युत्थापितमिति संकरः । अन्तरशब्दात् 'तत्करोति-' इति ण्यन्ताकर्मणि लिद । आम्प्रत्यये भुवोऽनुप्रयोगः ॥ तस्थे मुहूर्तं हरिणीविलोचनैः सहशि दृष्ट्वा नयनानि योपिताम् । मत्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत॥३०॥
तस्थ इति ॥ हरिणीविलोचनैः सदृशि सदृशानि । 'नपुंसकस्य झलचः' इति नुम् । योषितां नयनानि दृष्ट्वा मृगैः कृष्णसारैः कर्तृभिर्मुहूर्तमल्पकालम् । 'मुहूतमल्पकाले स्याटिकाद्वितयेऽपि च' इति विश्वः । तस्थे स्थितम् । हरिणीविलोचनशङ्कयेति भावः । अथानन्तरमनेका विभ्रमक्रिया विलासक्रिया एव विकारा येषां तानि मत्वा । सविलासानि ज्ञात्वेत्यर्थः । सत्रासं सभयं यथा तथा पला. ग्यत पलायितम् । हरिणीदुर्लभैविलासैोषिन्निश्चयादिति भावः । अत एव निश्च. यान्तः संशयालंकारः । परापूर्वादयतेर्भावे लङ् । 'उपसर्गस्यायतौ' इति लत्वम् ॥ निम्नानि दुःखादवतीर्य सादिभिः सयनमाकृष्टकशाः शनैः शनैः। उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥३१॥
निम्नानीति ॥ अर्वतामश्वानाम् । 'वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । 'अर्वणस्सावनञः' इति त्रादेशः। सादिभिरश्वारूढः । सयनमाकृष्ट. कशा दृढगृहीतवल्गाः सन्तः । यद्यपि 'अश्वादेस्ताउनी कशा' इत्यमरः, तथाप्यत्र 'ताडनीवल्गयोः कशा' इति दर्शनादविरोधः । शनैःशनैर्दुःखात्कृच्छ्रान्निमानि निम्नभूप्रदेशानवतीर्य उत्तालखुरारवमुच्चतरशफशब्दं श्थीकृतप्रग्रहं शिथिलितवल्गं च यथा तथा द्रुताः सत्वराः सन्त उत्तेरुरुत्पुप्लुविरे। निम्नेषु शनैरवतीर्य दीर्घ धावन्तीत्यश्वानां स्वभाव इति भावः । अत एव स्वभावोक्तिः ॥