________________
४१०
शिशुपालवधे सूक्ष्माणामपीति भावः । ईक्षणे दर्शने दिव्यचक्षुषोऽप्रतिहतदृष्टयः । किं च स्वगुणेषूच्चगिरः । आत्मप्रशंसायामतिप्रगल्भवाच इत्यर्थः। परवर्णग्रहणेषु परस्तुतिवचनेषु । 'स्तुतौ वणं तु वाक्षरे' इत्यमरः । मुनिव्रता मौनव्रतिनः । 'मर्शआदिभ्योऽच्' । चैद्यश्चैवंविध इति प्रतीतेरप्रस्तुतप्रशंसा ॥
साधवस्तु नैवमित्याहप्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ ३० ॥
प्रकटानीति ॥आर्यचेतसां सुमनसां प्रकटान्यपि परवाच्यानि परदूषणानि चिराय गोपितुं गोपायितुम् । संवरीतुमित्यर्थः । 'आयादय आर्धधातुके वा' इति विकल्पादायप्रत्ययाभावः । महन्नैपुणं कौशलम् । अथेति वाक्यारम्भे । अथात्मनो गुणान्विवरीतुं प्रकटयितुम् । आत्मप्रशंसां कर्तुमित्यर्थः । भृशमाकौशलमत्यन्तमकौशलम् । साधवो न परान्निन्दन्ति न वात्मानं प्रशंसन्ति । 'आत्मप्रशंसां परगर्हामिव वर्जयेदि'त्यापस्तम्बीये निषेधस्मरणादिति भावः । 'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पान्नपूर्वपदस्यापि वृद्धिः । कृष्णश्चैवंभूत इति विशेषप्रतीतेरप्रस्तुतप्रशंसैव ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । बदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥३१॥
किमिति ॥ किंच महामना महात्मा। अखिललोककीर्तितं स्वत एव सर्वैलोकैः प्रख्यातमात्मगुणं किमिव किमर्थ कथयत्येव । स्वत एव सवैलौकैः कीर्त्यमानत्वादित्यर्थः । लघीयसस्तुच्छस्य तु स्वगुणं वदिता वक्ता । वदेस्तृचूप्रत्ययः । अत एव 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । अपरोऽन्यो नास्ति तेन कारणे. नासौ लघीयान्स्वगुणं स्वयमेव वदति न केवलं निषेधात् । किंच प्रयोजनाभावादपि महानात्मप्रशंसां न करोति, तुच्छस्तु वक्रन्तरासंभवात्स्वयमेव तां प्रलपतीत्यर्थः । पूर्वार्ध पदार्थहेतुकं काव्यलिङ्गम्, उत्तरार्ध वाक्यार्थहेतुकं चोन्नेयम् । कृष्णचैद्यौ चैवंविधाविति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः ॥ किंच महात्मानः क्रुद्धाः काले पराक्रमन्ति, दुरात्मानस्तु केवलं प्रलपन्तीत्याहविसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ ३२ ॥ विसृजन्तीति ॥ परे नराः सत्पुरुषाः विषमाशीविषवत्क्रूरसर्पवदित्युपमा । अविकस्थिनोऽनात्मश्लाधिन एव क्रुधं क्रोधं विसृजन्ति वमन्ति । पराक्रमन्तीत्यर्थः । अन्तरभ्यन्तरे असाररूपतां निःसाररूपतां दधतो दधानाः । 'नाभ्यस्ता च्छतुः' इति नुमभावः । इतरेजना दुर्जनाः पटहा इव ध्वनिरेव सारो बलं येषां ते