________________
पोडशः सर्गः।
४११
ध्वनिसारा वाक्शूरा एव । न तु बाहुबलशालिन इति भावः। अनापीदशौ कृष्णचैद्यावित्यप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥
अभिधाय तदा तदप्रियमित्यादिना यहृतेन युगपत्प्रियाप्रिये अभिहिते तत्रोत्तरमाहनरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः। द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ ३३ ॥
नरकेति ॥ स महीपतिश्चेदिभूपतिर्येन विधिना येन प्रकारेण संधिना विनहेण वा नरकच्छिदं नरकस्याप्यन्तकम् । किमन्येषामशक्तानामिति भावः । ईक्षितुमिच्छति तस्य विधेः सदृशमुत्तरं प्रतिक्रिया स्नेहो विरोधो वा विधातुं न हापयिष्यते । अविलम्वेन विधास्यत इत्यर्थः । जहातेय॑न्ताकर्मणि लट् । विधानक्रियया अमभिधानेऽपि प्रधानभूतक्रिययाभिहितत्वादुत्तरमिति न कर्मणि द्वितीया। द्रुतं शीघ्रमेतु आगच्छतु । आगमने स्वयमेव हीयत इति भावः ॥ ___नन्वभिधायेत्यादौ मया सान्त्वमेव विवक्षितं न विग्रहस्तत्किमुभयाभ्यनुज्ञयेत्याशङ्कयाहसमनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना। हरिराक्रमणेन संनतिं किल विभ्रीत भियेत्यसंभवः ॥ ३४ ॥
समनद्धति ॥ अङ्गे त्यामन्त्रणे । असौ भूपतिश्चैद्योऽमुना हरिणा सह संधि त्सुर्यदि संधातुमिच्छुश्चेत् । दधातेः सन्नन्तादुप्रत्ययः । किं समनद्ध किमर्थ संनद्धवान् । ततो नायं संधिसुरिति भावः । नह्यतेः स्वरितेत्वाकर्तरि लुडि तङ् 'झलो झलि' इति सकारलोपः । कृष्णभीषणार्थ संनाह इत्यत आहहरिः सिंहः कृष्णश्च किलाक्रमणेनाभिभवेन या भीस्तया संनतिं नम्रतां बिभ्रीत बिभृयादित्यसंभवः । संभवो नास्ति खल्वित्यर्थः ॥
अथाक्रमणेऽनिष्टमाचष्टेमहतस्तरसा विलचयन्निजदोषेण कुधीविनश्यति । कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥३५॥
महत इति ॥ कुधीरासन्न विनाशत्वाद्विपरीतबुद्धिमान्महतो महानुभावांस्तरसा बलेन । 'तरसी बलरंहसी' इति विश्वः । विलङ्घयन्नाकामन्निजदोषेण स्वापराधेनैवोल्लङ्घनरूपेण विनश्यति । तथाहि इद्धदीधितिर्दीप्तार्चिरग्निः स्वया निजयेच्छया शलभान्पतङ्गान् । 'समौ पतङ्गशलभौ' इत्यमरः । इन्धनं दाह्य न कुरुते खलु, किंतु त एव निजौद्धत्यान्निपत्य दह्यन्त इत्यर्थः । इतः परं न क्षम्यत इति भावः । दृष्टान्तालंकारः ॥
नन्वसहने शाङ्गिणः शतापराधसहनप्रतिज्ञाभङ्गः स्यादित्यत्राहयदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् । अथ संप्रति पर्यपू पुरत्तदसौ दूतमुखेन शाङ्गिणः ॥ ३६॥