________________
४१२
शिशुपालवधे
यदिति ॥ पुरा पूर्व महीपतिश्चैद्यो मुखेन स्ववाचा यदागसामपराधानां शतम् । 'भागोऽपराधो मन्तुश्च' इत्यमरः । शाङ्गिणः कृष्णस्य स्वयं नापूरि । नापूरयदित्यर्थः । पूरयतेः कर्तरि लुङ् 'दीपजन-' इत्यादिना विकल्पाञ्चिण्प्रत्यये चिणो लुक् । अथ स्वप्रलापानन्तरं संप्रतीदानीमसौ चैद्यः दूतमुखेन दूतवाचा तत् आगसां शतं पर्यपूपुरत्परिपूरयामास । दूतमुखत्वाद्राज्ञां तेन कृष्णक्रोधावसरदानेन महदुपकृतमायुष्मतेति भावः । पूरयतेलुङि ‘णो चङ्युपधाया हस्त्रः' । अभ्यासदीर्घः ॥ निगमयन्फलितमाहयदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किंचिदप्रियम् । विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरंक्षितां क्रुधम् ।। ३७ ।।
यदिति ॥ अनर्गलमविष्कम्भम् । विकृतमिति यावत् । 'तद्विष्कम्भोऽगलं न ना' इत्यमरः । यद्दोपुरं पुरद्वारं तदिवाननं यस्य सः । वाच्यावाच्यविवेकशून्य इत्यर्थः । त्वमितः इतःपरं यदप्रियं वक्ष्यसि तदप्रियं चिरस्य चिरात्प्रभृति । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यव्ययेष्वमरः । समयोद्वीक्षणेन संवित्प्रतीक्षणेन रक्षितां, रुद्वामित्यर्थः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । क्रुधं क्रोधं विवरिष्यति । 'वृतो वा' इति दीर्घविकल्पः । इतः परं स्वमपि दण्ड्य एवेति भावः ॥ निशमय्य तदुर्जितं शिनेर्वचनं नमुरनानुरेनसाम् । पुनरुज्झितसाध्वसो द्विषामभिधत्ते स वचो वचोहरः ॥ ३८ ॥ निशमय्येति ॥ एनसामनाप्रसंस्प्रष्टुः । सत्यवादिन इति भावः । आमोतेस्तृच् । शिनेः शिनिनाम्नः कस्य चिद्यादवस्य नप्तुः पौत्रस्य । सात्यकेरिति भावः। तदूर्जितमर्थयुक्तं वचनं निशमय्य श्रुत्वा । 'ल्यपि लघुपूर्वात्' इति णेरयादेशः । पुनर्भूयोऽप्युज्झितसाध्वसं त्यक्तभयं यथा तथा द्विषां वचो हरतीति वचोहरो दूतः । 'हरतेरनुद्यमनेऽच्' । वचोऽभिधत्ते स्म अभिहितवान् ॥ विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः । यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ३९ ॥
विविनक्तीति ॥ बुद्ध्या दुर्विधो दरिद्रः । बुद्धिशून्य इत्यर्थः । 'निःस्वस्तु दुविधो दीनो दरिद्रो दुर्गतोऽपि सः' इत्यमरः। पृथग्जनः पामरजनः स्वयमेव परोपदेशं विनैवात्महितं न विविनक्ति तद्युक्तमेवेति भावः। किंतु परैरुदीरितमुपदिष्ट. मप्यदो हितं न विजानातीति यत्तन्महदद्भुतम् । यतः सूक्तं न गृह्णातीति भावः ।
१ रक्षिताः क्रुधः' इति पाठः.