________________
षोडशः सर्गः।
४१३ अथ किमद्भुतं मूर्खस्वित्याशयेनाहविदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः । न परोपहितं न च स्वतःप्रमिमीतेऽनुभवाहतेऽल्पधीः ॥४०॥ विदुरिति ॥ बुधा बुद्धिमन्तः एष्यन्तमागामिनमपायमनर्थमात्मना स्वयमेव । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया। विदुर्विदन्ति । 'विदो लटो वा' इति विकल्पाजसादेशः । अथ वा परतोऽन्यस्मादाप्ताच्छ्रद्दधते विश्वसन्ति । आप्तोतं गृह्णन्तीत्यर्थः । 'श्रदन्तरोरुपसंख्यानम्' इत्युपसर्गसंज्ञोपसंख्यानाद्धातोः प्राक्प्रयोगः। अल्पधीर्मूढस्वनुभवादृते स्वानुभवं विना । 'अन्यारादितरते-' इति पञ्चमी । न प्रमिमीते न जानाति । अधमस्तु स्वानुभवैकप्रमाण इत्यर्थः । अधमस्त्वमिति भावः । अत एवाप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥
अतः प्रस्तुते किमायातं तत्राहकुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् । उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ ४१ ।। · कुशलमिति ॥ हे कृष्ण, अहं यद्वचनमभ्यधाम् । अभिधायेत्यादिना राज्ञां संधिर्गुणाय विग्रहस्त्वना येत्येवमवोचमित्यर्थः । तद्वचनं तुभ्यमेव कुशलं हितम् । 'चतुर्थी चाशिप्यायुष्यमद्भद्रकुशलसुखार्थहितैः' इति चतुर्थी । नन्वहितेषु हितोपदेशात्प्रत्ययः कथमित्याशङ्यार्थान्तरन्यासेन परिहरति । साधवः सुजनाः स्वविनाशाभिमुखेषु । प्रबलविरोधादात्मविनाशहेतुभूतकर्मप्रवृत्तेन्वित्यर्थः । परेषु शत्रुप्वप्युपदेशपरा उपदिशन्त्येव । कृपालुतयेति भावः॥
तथाप्यर्थद्वये स्वद्वाक्ये किं ग्राह्यं तत्राहउभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच ते । प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ ४२ ॥
उभयमिति ॥ मया सान्त्वं सामादि । अथेति पक्षान्तरे । इतरदसान्त्वम् । विग्रहश्चेत्यर्थः । युगपदुदितं, त्वं तु मनीषया बुद्ध्या पृथग्भेदेन प्रविभज्य विविच्य यत्स्वगुणं तत्र द्वयेऽपि त्वरया यच्छुभोदकं तत्करिष्यसि किल खलु । हंसः क्षीरमिवाम्भसीति भावः ॥
अथवा सुजनस्वभावात्कृतोऽपि हितोपदेशो मूर्खेषु निष्फल इत्याहअथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ ४३ ॥
अथवेति ॥ अथवा अभिनिविष्टबुद्धिषु दुराग्रहग्रस्तचित्तेषु विषये सुभापितं हितोपदेशवचनं रविरागिषु कमलाकरेषु शीतरोचिषः शीतभानोः करजालमिव व्यर्थकतां निरर्थकतां व्रजति । तस्मादलमेव त्वयि हितोपदेशचिन्तयेति भावः ॥