________________
४१४: शिशुपालवधे
नन्वभिनिविष्टोऽपि सुजनैर्बलादपि हिते प्रवर्तयितव्य इत्याशक्य न शक्यत इत्याहअनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति । अपहाय महीशमार्चिचत्सदसि त्वां ननु भीमपूर्वजः॥४४॥
अनपेक्ष्येति ॥ जनस्वादृशः पृथग्जनः । गुणागुणौ गुणदोषौ । 'विप्रतिपिद्धं चानधिकरणवाचि' इति विभाषया न द्वन्द्वैकवद्भावः । अनपेक्ष्याविमृश्य निश्चयतः स्वनिश्चयादेव स्वरुचिं स्वेच्छामनुधावति । न तु स्वहितमनुसरतीत्यर्थः । तत्र पार्थ एव प्रमाणमित्याह-भीमपूर्वजः भीमाग्रजो युधिष्ठिरः मूर्खाग्रणी रिति भावः । महीशं चेदिपमपहाय सदसि त्वामार्चिचदर्चितवान्खलु । अर्चयतेो चडि 'भजादेर्द्वितीयस्य' 'नन्द्राः संयोगादयः' इति रेफवर्जितस्यैकाचो द्विर्भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः। प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः॥४५॥
त्वयीति ॥ हे कृष्ण, त्वयि भक्तिमता प्रेमवता । कुरूणां राट् । 'सत्सूद्विप-' इत्यादिना विप् । तेन कुरुराजा कुरुराजेन पार्थेन सत्कृतो नार्चितश्चेदिपो गुरुरेव पूज्य एव । तथा हि प्रियं मांसं यस्य तेन मांसगृनुना मृगाधिपेन सिंहेनोझि. तस्त्यक्तः करिकुम्भजो मणिर्मुक्तामणिरवद्यो गीः किम् । अनवद्य एवेत्यर्थः । मूर्खानादरान महतां किंचिल्लाघवमित्यर्थः । 'कुपूयकुत्सितावद्यखेटगाणकाः समाः' इत्यमरः । 'अवधपण्य-' इत्यादिना निपातः । दृष्टान्तालंकारः ॥
विदुषां तु पूज्य एव चैद्य इत्याशयेनाहक्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः । शिरसौघमधत्त शंकरः सुरसिन्धोर्मधुजित्तमत्रिणा ॥ ४६॥
क्रियत इति ॥ धवलो निर्मलो धवलैनिर्मलैरेवोच्चकैरुन्नतः क्रियते खलु । सितेतरैमलिनैरधः क्रियते । तथाहि शंकरः शिवः सुरसिन्धोरोघं मन्दाकिनीपूर शिरसा अधत्त । उभयो मल्यादिति भावः । मधुजिन्मधुशत्रुर्विष्णुस्तु तमोघमङ्किणा अधत्त । स्वयं मलिनत्वादिति भावः। अतो विशेषेण विदुषां राजा पूज्य एवेति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥
किंच यथा पार्थानादराद्राज्ञो न किंचिल्लाघवं तथा तदादराच्च न ते किंचिगौरवमित्याह
अबुधैः कृतमानसंविदस्तव पार्थः कुत एव योग्यता । सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ ४७ ॥
अवुधैरिति ॥ अबुधैरज्ञैः पार्थैः कृते मानसंविदौ पूजातोषणे यस्य तस्य । 'संविस्त्रियां प्रतिज्ञायां संकेताचारनामसु । संभाषणे तोषणे च' इति विश्वः । तव