________________
षोडशः सर्गः।
४१५ योग्यता कुत एव । न कुतोऽपीत्यर्थः । तथा हि सहसि मार्गशीर्षे । 'मार्गशीर्ष सहा मार्गः' इत्यमरः । प्लवगैरुपासितं सेवितं गुञ्जाफलं काकफलानि । जाताबेकवचनम् । 'काकचिञ्चीगुळे तु कृष्णला' इत्यमरः । सोष्मतामुष्णतां नैति हि । न हि पुंसां मूढपरिग्रहापरिग्रही गौरवागौरवयोः प्रयोजकावित्यर्थः । अत्र कृष्णगुञ्जाफलयोर्विशेषयोरेव वाक्यभेदेन प्रतिबिम्बीकरणादृष्टान्तालंकारः ॥
यदपूरीत्यादिना यत्सात्यकिना शतापराधक्षमत्वमुक्तं तत्रोत्तरमाहअपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया। हतवत्यपि भीप्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥४८॥
अपराधेति ॥ नृपश्चैद्यः अपराधशतस्य क्षमं राज्ञः शतापराधसहिष्णु भवन्तं एकया क्षमया । एकापराधसहनेनेत्यर्थः । अत्येति अतिक्रामति । अपराधकोटीनामपि तदंशेनापि साम्यासंभवादिति भावः। तामेव क्षमां दर्शयति-त्वयि भीष्मकात्मजां रुक्मिणी हृतवत्यपि समर्थः प्रतीकारक्षम एव सन्नपि चक्षाम क्षाम्यति स्मेति यत् तया क्षमयेत्यर्थः ॥ . 'राक्षसः क्षत्रियस्येव' इति स्मरणादाक्षसोद्वाहस्य क्षात्रधर्मत्वादुक्मिणीहरणे कोऽस्माकमपराधः, राज्ञो वा कात्र क्षमेत्याकाङ्कायामाह
गुरुभिः प्रतिपादितां वधूमपहत्य स्वजनस्य भूपतेः । जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ ४९ ॥
गुरुभिरिति ॥ हे जनार्दन, गुरुभिः पित्रादिभिः प्रतिपादितां राज्ञे दत्ताम् अत एव स्वजनस्य बन्धोभूपतेर्महारजस्य वधू जायामपहृत्य हतौ धर्मार्थों येन तत्तया हतधर्मार्थतया हेतुना स्फुटं मनोभुवः कामस्य जनकोऽसि । धर्मार्थबाधेन काममात्रनिष्ठोऽसीत्यर्थः । नायं राक्षसो विवाहः । 'हत्वा छित्त्वा च भित्त्वा च क्रोशन्ती रुदतीं तथा । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥' इति कन्याहरणस्य राक्षसत्वलक्षणात् । अयं तु परदारापहरणे बन्धुदोहो राजद्रोहश्चेत्यहो पापिष्टस्य कामान्धस्य ते परमसाहसिकत्वमिति भावः ॥ सत्यमीगेवाहं ततः किमित्याशक्य किमन्यद्वधादित्याह-- अनिरूपितरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः । तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥ ५० ॥
अनिरूपितेति ॥ अनिरूपितरूपसंपदः शैलूपवद्वहुरूपधारित्वादशातरूपविशेषस्यावामानसगोचररूपवैभवस्येति च गम्यते । अन्यत्र आरोपितकृष्णरूपं तमः, तेजोविशेषाभावस्तम इति च मतद्वयेऽपि प्रमाणानवतरूपसंपद इत्यर्थः । अन्याभृतच्छदच्छवेः कोकिलपक्षकान्तेस्तव तमसो वा तिमिरस्येव । 'वा स्याद्विकल्पोएमयोः' इति विश्वः । सर्वगतस्य क्षितिपश्चेदिपोऽभीशुमानंशुमानिव संप्रतीदानीमेव क्षिप्नुः क्षेप्ता । आहन्तेत्यर्थः । शास्तासौ दुरात्मनामिति भावः । 'बसिगृधिध