________________
४१६
शिशुपालवधे पिक्षिपेः नुः' इति नुप्रत्ययः । 'न लोका-' इत्यादिना कृद्योगे षष्ट्या निषेधे तवेति शेषे षष्ठी । पर्यवसानात्तु कर्मत्वलाभः । 'अभीषुः प्रग्रहे रश्मा' इत्यमरः । विश्वप्रकाशादयः सर्वेऽप्याभिधानिका मूर्धन्यान्तेषु पेठुः । लोकवेदयोस्तालव्यान्तो दृश्यते । 'अभीशूनां महिमानम्' इत्यादि ॥
तर्वस्मदर्थं त्वया राजा सान्त्वयितव्य इत्याशङ्कय नेत्याहक्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम । प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥५१॥
क्षुभितस्येति ॥ त्वयि विषये क्षुभितस्यातिक्रुद्धस्य महीभृतो राज्ञो मम प्रशमोपन्यसनं शान्त्युपदेशो वृथा निष्फलः । तथा हि प्रलयोल्लसितस्य कल्पान्तक्षुभितस्य वारिधेः जगतः परिवाहो जगत्कृतो जलनिगममार्गः किं करोति । न किंचिदित्यर्थः । दृष्टान्तालंकारः॥
तीसंधित्सुना राज्ञा किमर्थं भवानिह प्रहितस्तत्राहप्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ ५२ ।।
प्रहित इति ॥ प्रधनाय युद्धाय माधवान् यादवानाकारयितुमाह्वातुम् । 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' । 'हूतिराकारणाह्वानम्' इति चामरः । महीभृता राज्ञाहं प्रहितः प्रेरितः । ननु रन्ध्र हन्तव्याः शत्रदो नाह्वातव्या इत्यत्राह-नेति । महौजसो महावीराः परेप्वरिषु मलिम्लुचाः पाटञ्चरा इव । 'पाटच्चरमलिम्लुचाः' इत्यमरः । छलात्कपटान्नापकुर्वन्ति । तस्मादाह्वानं कर्तव्यमिति वाक्यार्थहेतुकं काव्यलिङ्गमुपमालंकारसंकीर्णम् ॥
तदेवागमनप्रयोजनमुक्त्वा हितमुपदिशतितदयं समुपैति भूपतिः पयसां पूर इवानिवारितः । अविलम्बितमेधि वेतसस्तरुवन्माधव मा म भज्यथाः॥५३॥
तदयमिति ॥ तत्तस्मायुद्धार्थत्वादयं भूपतिश्चैद्यः पयसां पूरः प्रवाह इवानिवारितः समुपैति । हे माधव, अविलम्बितं शीघ्रं वेतसः एधि भव । तद्वन्नम्रमास्मानं रक्षेत्यर्थः । अस्तेर्लोट् सिपि हेधिः 'ध्वसोरेद्धावभ्यासलोपश्च' इति एवम् । 'धि च' इति सकारलोपः । माधव, त्वं तरुवन्महावृक्षवत् मा स्म भज्यथा मा भज्यस्व । अतः आत्मानं न विनाशयेत्यर्थः । भजेः कर्मण्याशिषि लिङः (अर्थ) 'स्मोत्तरे लङ् च' इति लङ् 'न माङयोगे' इत्यडभावः । उपमालंकारः॥
ननु राज्ञि शिशुपाले यूनामफलमित्याशङ्कयाहपरिपाति स केवलं शिशूनिति तन्नामनि मा म विश्वसीः।
१ उपन्यस्तसूत्रेण सकारस्यैवालोन्त्यपरिभाषया एत्रे 'श्नसोरल्लोपः' इत्यकारलोपे रूपसिद्धौ 'घि च' इत्यस्योपन्यासो भ्रममूलकः।