________________
पोडशः सर्गः।
४१७
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ ५४ ॥
परिपातीति ॥ शिशुपालः। केवलमित्यवधारणे क्रियाविशेषणम् । शिशून्परिपातीति शिशूनेव पालयतीति तन्नामनि तस्य शिशुपालसंज्ञायां मा स विश्वसीः । मा विश्वासं कुर्वित्यर्थः । श्वसेः 'स्मोत्तरे लङ् च' इति लडि 'रुदश्च पञ्चभ्यः' इतीडागमः । चकारालुङि वा तत्र 'अस्ति सिचोऽपृक्ते' इति ईडागमः 'हयन्तक्षणश्वसजागृणिश्व्येदिताम्' इति वृद्धिप्रतिषेधः । 'न माङयोगे' इत्यड. भावस्तूभयत्र । किंतु क्षमी क्षमावान् । व्रीह्यादित्वादि निः । शरणे रक्षणे साधुः शरण्यः रक्षणक्षमः । 'तत्र साधुः' इति यत्प्रत्ययः । स शिशुपालः शरणं रक्षितारमागतान्प्राप्तान् । 'शरणं गृहरक्षित्रोः' 'शरणं रक्षणे गृहे' इत्युभयत्रापि विश्वः । द्विषः शत्रूस्तरुणान्यूनोऽपि रक्षति । अतो निःशई शरणमागच्छेत्यर्थः॥
ननु वयं द्रोग्धारः सोऽप्यतिक्षुभितः किल कथं नः पालयेदित्याशङ्कयाहन विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् । भजते कुपितोऽप्युदारधीरनुनीति नतिमात्रकेण सः॥ ५५ ॥ • नेति ॥ स्वार्थपराः स्वार्थनिष्ठाः परे शत्रवो महतोऽधिकस्य कथमप्रियमपकारम् अशकं यथा तथा न विदध्युः । कुर्युरेव कार्यवशादित्यर्थः। किंतु उदारधीमहामतिः । 'उदारो दातृमहतोः' इत्यमरः । स राजा कुपितोऽपि नतिमात्रकेण प्रणतिमात्रकेणानुनीतिमनुनयं भजते । अनुग्रहीष्यतीत्यर्थः। 'प्रणिपातप्रतीकारः संरम्भो हि महात्मना मिति भावः ॥
किं बहुना तवायं हितोपदेशसंग्रह इत्याशङ्कयाहहितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि । अनृतैरथ तुष्यसि प्रियैर्जयताजीव भवावनीश्वरः ॥५६॥ हितमिति ॥ श्रुतम् अप्रियं हितमिच्छसि यदि । अप्रियं हितं श्रुतमाप्तादाकर्णितं ग्रहीतुमिच्छसि चेदित्यर्थः। संधत्स्व राज्ञा संधेहि । पुरा न नश्यसि । अन्यथा विनयसीत्यर्थः । 'यावत्पुरानिपातयोर्लटू' इति भविष्यदर्थे लट् । अथेति पक्षान्तरे । अनृतैरसत्यैः प्रियैस्तुष्यसि यदि जयताजयतु । 'तुह्योस्तातडाशिष्यन्यतरस्याम्' इति तोस्तातङादेशः । जीव अवनीश्वरः सार्वभौमो भव । ततः किमेभिः प्रियालापैः । अप्रियमपि हितमेव गृहाणेति भावः ॥
ननु कंसाधनेकविजयी कृष्णः कथं विजेप्यते राज्ञेत्याशङ्कयाहप्रतिपक्षजिदप्यसंशयं युधि चैयेन विजेष्यते भवान् । ग्रसते हि तमोदहं मुहुर्ननु राबाहमहर्पतिं तमः ॥ ५७ ॥
प्रतिपक्षेति ॥ प्रतिपक्षजिदनेकारिहन्तापि भवानसंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । युधि सङ्ग्रामे चैद्येन शिशुपालेन विजेष्यते । जयतेः कर्मणि लट् । शेषे प्रथमः । तमांस्यपहन्तीति तमोपहं सर्वतमोपहारिणम्। 'अपेः