________________
४१८
शिशुपालवधे क्लेशतमसोः' इति हन्तेर्डप्रत्ययः। अह्नां पतिमहर्पति सूर्यम् । 'अहरादीनां पत्यादिषूपसंख्यानम्' इति वैकल्पिको रेफादेशः । राबाह्र राहाख्यं तमः । 'आख्याह्वे अभिधानं च' इत्यमरः । मुहसते ननु गिलति हि । अत्र हरिसूर्ययो राहुचैद्ययोश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः ॥ किं न भवानेक एव विजेप्यते, किंतु सर्वैर्यादवैः सहेत्याहअचिराजितमीनकेतनो विलसन्वृष्णिगणैनमस्कृतः। क्षितिपः क्षयितोद्धतान्धको हरलीलां स विडम्बयिष्यति ॥५८।।
अचिरादिति ॥ स क्षितिपः राजा अचिरादविलम्बितमेव जितो मीनके तनः काणिः प्रद्युम्नः, स्मरश्च येन सः। वृष्णयो यादवभेदास्तेषां गणैरोधैर्नमस्कृतो भीत्या प्रणतः सन् । अत एव विलसन्दीप्यमानः । अन्यत्र वृष्णीति पदच्छेदः । वृष्णि उक्षणि विलसन् । वृषारूढ इत्यर्थः । गणैः प्रमथैनमस्कृतः । 'गणाः प्रमथसंख्यौघाः' इति, 'वृषा महेन्द्रे वृषभे' इति च वैजयन्ती । क्षयिता नाशिता उद्धता दृप्ता अन्धका यादवभेदाः । अन्यत्रान्धकोऽसुरो येन सः हरलीलां शंभुविभ्रमं विडम्ब यिष्यत्यनुकरिष्यति । अत्र हरलीलामिति सादृश्याक्षेपानिदर्शना श्लेषसंकीर्णा ॥
ननु देवासुरैरप्यजय्या यादवाः कथं राज्ञा जेष्यन्ते तत्राहनिहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।। न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥५९ ।
निहतेति ॥ क्षितिपश्चेदिपो निहत उन्मदो दुष्टकुञ्जरः कुवलयापीडाख्यो येन तस्मात् , अन्यत्र हतानेकमत्तमातङ्गात् । अत एव क्रमार्जितं भूरि यशो दधतः। हरेः कृष्णासिहाच्चेति ध्वनिः । रणे न बिभेति । अस्यैतादृशश्चद्यस्य वृष्णिषु यादवेषु मेषेषु च । 'वृष्णिस्तु यादवे मेषे' इति विश्वः । का गणना ! कृष्णमगणयतो यादवाः के इत्यर्थः । अत्र कुञ्जरघातिनः सिंहस्य का कथा अपेवित्यर्थान्तरप्रतीतिध्वनिरेव न श्लेषः। हरेर्वृष्णिविशेषस्यापि श्लिष्टत्वात्प्रकृ. ताप्रकृतश्लेषे तदङ्गीकारादित्युक्तं प्राक् ॥
हरेरपि न बिभेतीत्युक्तं तदेवं संभावयितुं तस्य पराक्रमानासर्गसमाप्तेर्वर्णयतिन तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः । द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विपाम् ॥ ६० ।।
नेति ॥ युधि शत्रवो भियास्य मुखं न पश्यन्तीति यत्तन्नाद्भुतम् , कुतः सोऽपि न ईक्षते ननु खलु । द्रवतां भयात्पलायमानानां विद्विषां पृष्ठं कायपाङ्गिमीक्ष्यते । जातु कदाचित् वदनं न ईक्षते ननु खलु । द्वयोरन्यतरमुखेध्वन्योन्यस्य मुखविलोकनासंभवात्स्वयं विमुखानां विद्विषामभिमुखस्याप्यस्य मुखादर्शनादद्भुतमित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥