________________
षोडशः सर्गः।
४१९
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः । दधतेरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ ६१ ।। प्रतन्विति ॥ शरदं ऋतुं प्राप्य विखण्डितायुधाः खण्डितेन्द्रचापाः अन्यत्र शरान्ददातीति शरदस्तं शरदं शरवर्षिणं प्राप्य खण्डितशस्त्राः प्रतनूल्लसिताचिरघुतोऽल्पस्फुरितविद्युतः । अन्यत्र प्रतनूल्लसिताः स्वल्पोल्लसितास्त एवाचिरद्युतोऽस्थिरद्युतः। पयोभृतो मेघा आसारभृतः वृष्टिमन्तः न यदि । शरदि वृष्टिशून्यत्वादिति भावः । सुहृद्धलशून्या इत्यर्थः । 'आसारः स्यात्प्रसरणे वेगवृष्टी सुहृद्धले' इति वैजयन्ती । अस्यारिभिस्तुल्यतां दधते । अत्र पयोभृतामुपमानानामुपमेयभावोक्तेः प्रतीपालंकारः । तेषामासारासंबन्धेऽपि संभावनया तदसंबन्धोक्तेरतिशयोक्तिभेदश्चेति संकरः ॥ मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः । नृपमौलिमरीचिवर्णकैः खलु यस्यात्रियुगं विलिप्यते ॥ ६२॥
मलिनमित्यादि ॥ मुहुरसकृत् । रणरेणुभिर्मलिनमत एव द्विषतामङ्गनाश्रुभिः क्षालितं । नाहत्वारीन् रणान्निवर्तत इति भावः। यस्याशियुगं चरणयुगलम् । अथ रेणुक्षालितानां नृपाणां प्रणतानां राज्ञां मौलिमरीचयो मुकुटमणिरश्मयस्तरेव वर्गकैविलेपनैश्चन्दनैः । 'चन्दने चापि वर्णकम्' इति विश्वः । विलिप्यते विशेष्यते । अत्राङ्गियुगस्य विशेषणमहिना स्नातानुलिप्तपुरुषसाम्य. प्रतीतेः समासोक्तिः ॥ समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च । धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ ६३ ॥
समरायेति ॥ किंचेति चार्थः । निकामकर्कशमतिकठिनम् । दुर्धर्षमित्यर्थः । समराय संप्रहारायाकृष्टमाहूतमावर्जितं च क्षणम् आशङ्कितभङ्गं मनसोत्प्रेक्षित. स्वपराजयम् ; अन्यत्रातिकर्षणात्संभावितदलनं यस्य विद्विषां कुलमाशु धनुषा सममानतिं नम्रतामुपैति । अत्र धनुनमनकार्यस्य द्विषन्नमनस्य तत्सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविपर्ययनिमित्तरूपातिशयोक्तिमूला सहोक्तिरलंकारः ॥ तुहिनांशुममुं सुहृजनाः कलयन्त्युष्णकरं विरोधिनः । कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ ६४ ॥
तुहिनेति ॥ अमुमेवंविधं चैद्यं सुहृजनाः तुहिनांशुं कलयन्ति आह्लादकत्वाच्चन्द्रं मन्यन्ते । विरोधिनः उष्णकरं तपनं कलयन्ति । एकस्यानेकप्रतीतिमुपमिमीते । कृतिभिरिति । कृतिभिः कुशलैरैन्द्रजालिकादिभिः कृतदृष्टिवि. भ्रमा जनितदृष्टिविपर्यया एके नराः यथा स्रजं मालां कलयन्ति, अपरे तु भुजगं कलयन्ति एकमेव रज्वादिकमिति शेषः । उपमालंकारः स चैकस्य निमित्तवशाद्गृहीतेनेदन्तादस्तानेकधोल्लिखनात्मकेनोल्लेखेन संकीर्यते ॥ . ..