SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधे दधतोऽसुलभक्षयागमा स्तनुमेकान्तरताममानुषीम् । भुवि संप्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः || ६५ ॥ दधत इति ॥ असुलभक्षयागमाः दुर्लभ गृहप्राप्तयः, अन्यत्रामरत्वाद्दुर्लभनाशयोगाः । 'निलयापचयौ क्षयौ' इत्यमरः । एकान्तरतां भयाद्विजनस्थाने निरताममानुषीं कार्यमालिन्यादिना पिशाचादिवत्प्रतीयमानाम्, अन्यत्रैकान्तरतां नियतसुरतां नित्यभोगाममानुषीं दिव्यां तनुं दधतो दधानाः भुवि संप्रति वचन न प्रतिष्ठिताः राज्यभ्रंशात्क्वापि स्थितिमप्राप्ताः, अन्यत्र च भुवं न स्पृशन्तीत्यर्थः । देवस्वाद्यस्यारातयः सुरैः सदृशाः । अत्राप्यमुमिति पूर्वेण संबन्धः । श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥ अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किंचन । यदमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ ६६ ॥ ४२० अतीति ॥ अतिविस्मयनीयकर्मणोऽत्यन्तविस्मितपौरुषस्य । स्मयतेरनीयरप्रत्ययः । यस्य नृपतेश्चैद्यस्य विरोधि चेष्टितं द्वेषिरूपं न किंचिदस्तीत्यर्थः । यस्मादमुक्तनयोऽत्यक्तनीतिमार्गोऽसौ अक्षयमविनाशि । पूर्वं केनापि क्षयं न नीतमित्यर्थः । अहितानां कुलं शत्रुजातं क्षयं नाशं नयति । नीतिपौरुषाभ्यां द्विषन्निमूलयितुरस्य का विरोधिवार्तेति भावः । अक्षयमपि क्षयं नयतीति विरोधस्य तृभेदेन परिहाराद्विरोधाभासोऽलंकारः ॥ चलितोर्ध्वकबन्धसंपदो मकरव्यूहनिरुद्धवर्त्मनः । अतरत्स्वभुजौजसा मुहुर्महतः संगरसागरानसौ ॥ ६७ ॥ चलितेति ॥ असौ चैद्यश्चलिताः प्रवृत्ता ऊर्ध्वा उत्थिताः कबन्धसंपदः शिरोहीन कलेवर संपद एव कबन्धसंपद उदकसमृद्धयो येषु तान् । श्लिष्टरूपकम् । ‘कबन्धं सलिले प्रोक्तमपमूर्ध कलेवरे' इति वैजयन्ती । मकरव्यूहाः मकराकारसैन्यविन्यासाः त एव मकरव्यूहा इति श्लिष्टरूपकम् | 'व्यूहौ समू हविन्यासौ' इति वैजयन्ती । निरुद्धवर्त्मनो निरुद्धप्रवेशमार्गान् । अत एव महतो दुस्तरान्संगरसागरान्समरसमुद्राभ्वभुजौजसा निजभुजबलेनैव मुहुर सकृदतरत् । भुजेनाब्धितरणमदृष्टचरमत्यद्भुतमिति भावः । अत्र कबन्धा एव कबन्धाः मकरव्यूहा एव कच्छपादिव्यूहा इति श्लिष्टरूपकस्य संगरेषु सागररूपण हेतुत्वात्केवलं श्लिष्टपरम्परितरूपकम् ॥ न चिकीर्षति यः स्मयोद्धतो नृपतिस्तच्चरणोपगं शिरः । चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ॥ ६८ ॥ नेति ॥ मयोद्धत गर्वेण दुर्विनीतो नृपतिः शिरो निजोत्तमाङ्गं तस्य शिशुपालस्य चरणमुपगच्छतीति तच्चरणोपगं तत्पादगतं यो न चिकीर्षति कर्तुं नेच्छति तदीये तस्य नृपतेः संबन्धिनि मूर्धनि गतस्मयो विगर्वोऽसौ शिशुपाल एव
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy