________________
षोडशः सर्गः।
४२१ रवं चरणं कुरुते । निधत्त इत्यर्थः । अनम्रान्सद्यो नमयति नम्रानवतीति तात्पर्यम् ॥
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् । बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥६९॥ स्वेति ॥ स चैद्यश्चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तां चतुरङ्गां वाहिनी सेनामपहाय स्वभुजद्वयं केवलमेकमायुधं यस्य सः सन् शक्रदन्तिना ऐरावतेन सह । चत्वारो दन्ता यस्मिंस्तं चतुर्दन्तम् । आहवं रणं बहुशोऽगच्छत् । चतुर्दन्तेन शक्रदन्तिना दोर्द्वयेन योद्धं चैद्यं विना कोऽन्यः शक्त इति भावः । दन्तिनो. राहवश्चतुर्दन्त इत्युक्तं नतु मनुष्यदन्तिनोरिति विरोधः, स च शक्रदन्तिनेति परिहृतः, तस्य चतुर्दन्तत्वादिति विरोधाभासः ॥
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया । युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः॥ ७० ॥ अविचालितेति ॥ अविचालितं परैरपर्यासितं अत एव चारु शोभनं चक्र सुदर्शनं, राष्ट्रं च ययोस्तयोः । 'चक्र राष्ट्ररथाङ्गयोः' इति विश्वः । श्रिया कमलया, संपदा चानुरागादुपगूढयोराश्लिष्टयोर्युवयोस्तव तस्य च । 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषः । इदमेव भिद्यते विशेप्यते । कर्मकर्तरि लट् । किं तदित्यत्राह-त्वमिन्द्रमुपगत उपेन्द्र इन्द्रानुजः । तदनुचर इति यावत् । स तु इन्द्रमतिकान्तः अतीन्द्रः । इन्द्रविजयीति यावत् । इदमेव भिद्यते इति संबन्धः । इन्द्रकिङ्करेन्द्रजयिनोः का साम्यकथेति भावः । अत्रोपमानात्कृष्णा. दुपमेयस्य चैद्यस्याधिक्या दप्राधान्यसाधर्मोक्तेर्व्यतिरेकालंकारः ॥ किंच त्वत्तोऽप्यधिको राजेत्यवाच्योऽयमर्थः यदीश्वरादप्यधिक इत्याह
भृतभूतिरहीनभोगभाग्विजितानेकपुरोपि विद्विषाम् । रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥७१ ॥ भृतेति ॥ भृता भूतिर्भस, संपञ्च येन स भृतभूतिः । 'भूतिर्भस्म नि संपदि' इत्यमरः । अहीनां भोगिनामिनोऽहीनः तस्य भोगं कायं भजतीत्यहीनभोगभाक् । शेषभूषण इत्यर्थः । अन्यत्र अहीनमन्यूनं भोगं सुखानुभवं भजतीत्यहीनभोगभाक् । 'भोगः सुखे स्यादिभृतावहेश्च फणकाययोः' इत्यमरः । विद्विषां विजितानेकपुरः । विजितानेकविद्विदपुर इत्यर्थः । एकत्र त्रिपुरविजयादन्यत्र शत्रुनगरविजयाचेति भावः । सापेक्षत्वेऽपि गमकत्वात्समासः । एवंभूतोऽप्यजो हरः । 'अजा विष्णुहरच्छागाः' इत्यमरः । इन्दुदले दन्द्रखण्डे विषये रुचिमभिलाषं करोति । इन्दुदले या रुचिः शोभा तां करोति दधातीति चार्थः । सामान्यशब्देन विशेपलक्षणा । महीपतिस्तु परिपूर्णेन्दो रुचिरिव रुचिः शोभा यस्य सः तस्मिन्रुचिरभिलाषो यस्येति च परिपूर्णेन्दुरुचिः। 'रुचिर्मयूखे शोभायामभिषगाभिला.
शिशु० ३६