________________
४२२
शिशुपालवधे पयोः' इति विश्वः । अत्र हरखण्डेन्दुरुचिः, राजा पूर्णेन्दुरुचिरिति व्यतिरेकः । स च रुच्योरभेदाश्रयणादिनि श्लेषमूलाभेदातिशयोक्त्या संकीर्णः ॥
अथ कलापकमाहनयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गरोदयः। गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ ७२ ॥ नयतीति ॥ यः तद्रुमैः सरितामुदकस्य पूर एव भूभृतां गणैः क्रीडतीति चतुर्थे वक्ष्यति । तत्क्रीडाप्रकारं त्रिभिर्वर्णयति । अभङ्गुरोदयः स्थिरवृद्धिः य उद्धतिश्रित औद्धत्यभाजः । अनम्रानिति यावत् । श्रयतेः विप् । नृपान्द्रमांश्चेत्यर्थः । द्रुतं शीघ्रं प्रसभं प्रसह्य भङ्गं नयति । अवनीतले स्फुरन्यौ भुजौ शाखे इव भुजशाखे यस्य तम् । भुजौ प्रसार्य भुवि प्रणिपतितमित्यर्थः । अन्यं नृपं द्रुमं च वेतसादिकं भृशमुन्नतिं गमयति ॥
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः । खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥७३॥ अधिगम्येति ॥ किंचेति चार्थः । अन्तरा मण्डलमध्ये, आलवालमध्ये च रन्ध्रमवकाशं शुषिरं चाधिगम्य । अन्यतः मण्डलस्यामात्यादिचक्रस्य भेदमुपजापं जनयन् , अन्यत्र मण्डलस्याधारदेशस्य भेदं विदारणं कुर्वन्नित्यर्थः । क्षता संहतिरैकमत्यं, मूलानामाश्लेषश्च यस्मिन्कर्मणि तद्यधा तथा क्षणात्कस्यचिद्राज्ञः, द्रुमस्य च महान्ति मूलानि मुख्याञ्जनानपि खनति तापयति, अन्यत्रादीनपि
खनत्यवदारयति ॥
घनपत्रभृतोऽनुगामिनस्तरसाकृप्य करोति कांश्चन । दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ ७४ ॥ घनेति ॥ घनानि सान्द्राणि पत्राणि वाहनानि, पर्णानि च बिभ्रतीति घन. पत्रभृतः कांश्चन नृपान्द्रुमांश्च तरसा बलेन, वेगेन च । 'तरसी बलरंहसी' इति विश्वः । आकृष्यानुगामिनोऽनुचरान्करोति । दृढं यथा तथा प्रतिष्ठितं प्रतिष्टां गतमपि । प्रतिकूलं प्रातिकूल्यभाजमपरं नृपं, द्रुमं च नितरां निरस्यति उत्पाट्यान्यतः क्षिपति । द्रुमपक्षे प्रतिकूलं कूले क्षिपतीति चार्थः ॥
इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः । क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥७५॥
॥कलापकम् ॥ इतीति ॥ इतीत्थं वचनाप्यखण्डितप्रसरः । सर्वत्राखण्डितप्रवृत्तिरित्यर्थः । महान्यः शिशुपालः प्रावृषि जातः प्रावृपिजः । 'सप्तम्यां जनेर्डः' इति डप्रत्ययः । 'प्रावृट्शरत्कालदिवां जे' इत्यलुक् । 'प्रावृषिकः' इति पाटे तत्र जात इत्यर्थे 'प्रा.