________________
षोडशः सर्गः।
४२३ वृषष्ठक्' इति ठक् प्रत्ययः । ठस्येकः । सरितामुदकानां पूरस्तटद्रुमैरिव भूभृतः राज्ञां गणैः साधनैः क्रीडति । 'महतः कुकुरे'त्यागामिश्लोके स महीपतिरित्यने. नास्य संबन्धः ॥
अथ विशेषकमाहअलघूपलपशिशालिनीः परितो रुद्धनिरन्तगम्बराः । अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥७६॥
अलध्वित्यादि ॥ यस्यारिस्त्रियः संपद्यनुभूतमापद्यप्यनुभवन्तीति वक्ष्यति तत्प्रकारमेवाह । अधिरूढनितम्ब भूभय उन्नतश्रोणिभागाः अलघुभिरुपलानां मणीनां, पाषाणानां च पतिभिः शालन्त इति तच्छालिनीः। 'उपलौ मणिपाषाणौ' इति विश्वः । परितो रुद्धमावृतं निरन्तरं सान्द्रं संनिहितं च अम्बरं वसमाकाशं च याभिन्ताः अधिरूढनितम्बभूमीराकान्तश्रोणिभागाः प्राप्तकटकाश्चेति विभक्तिविपरिणामः । मेखला रशनाः पर्वतमध्यभूमीश्च चिराय न विमुञ्चन्ति । अत्र संपदादिविषयत्वेनोभयेषामपि मेखलादीनां वर्ण्यत्वेन प्रकतत्वात्केवलप्रकृतगोचरः श्लेषः ॥
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।। नियतं दधते च चित्रकैरवियोग पृथुगण्डशैलतः ।। ७७ ।।
कटकानीति । किंच नवमुक्ताफलानि नूतनमौक्तिकानि भूषणानि येष तेश्वारुभिः भुजैः कटकानि वलयानि भजन्ति, अन्यत्र नवमुक्तान्यचिरत्यक्तानि अतः अफलानि वैधव्यान्निष्फलान्याभरणानि यैस्तैर्भुजैरुपलक्षिताः कटकानि तटानि भजन्ति । किं चेति चार्थः । पृथुगण्डशैलतः पृथुगण्डस्थलेषु चित्रकैः पत्ररचनाभिर्नियतमवियोग संपर्क दधते । अन्यन्न च्युतस्थूलोपलेषु चित्रकैगविशेषैः सह वासं दधते । अत्रापि प्रकृतगोचरः श्लेषः ।
इति यस ससंपदः पुरा यदयापुर्भवनेष्वरिस्त्रियः । स्फुटमेव समम्तमापदा तदिदानीमवनीभ्रमूर्धम् ।। ७८ ।
॥विशेषकम् ।। इतीति ॥ यस्यारिस्त्रियः पुरा पूर्व ससंपदः सश्रीकाः भवनेषु सदनेषु यदवापुर्मेखलादिकमनुबभूवुः । समस्तमशेषं तदिदानीमापदा अवनीध्रमूर्धसु शैलशृङ्गेषु इतीत्थं स्फुटमेवावापुः । न हास्य वैरिणां जीविताशेति भावः । अत्रापि यदर्थस्योत्तरश्लोकेनान्वयः ॥ महतः कुकुरान्धकट्ठमानतिमात्रं दववदहन्नपि ।
अतिचित्रमिदं महीपतिर्यदकृष्णां पृथिवीं करिष्यति ॥ ७९ ॥ महत इति ॥ यत्तदोर्नित्यसंबन्धात् । स महीपतिर्महतोऽधिकान्कुकुराश्चा