________________
४२४
शिशुपालवधे
न्धकाश्च यादवभेदास्तानेव गुमानतिमात्रं दवववाग्निवत् । 'दवदावौ वनारपयवह्नी' इत्यमरः । दहन्नपि अवनीमकृष्णामश्यामां करिष्यति इति यत् इदमतिचित्रम् । विरुद्वमित्यर्थः । कृष्णरहितामित्यविरोधः । अतएव विरोधाभासोऽलंकारः । कुकुरान्धकैः सह कृष्णं हनिष्यतीति श्लेषार्थः ।। अथ युग्मेनाहपरितः प्रमिताक्षरापि सर्व विषयं प्राप्तवती गता प्रतिष्ठाम् । न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥८॥ परित इति ॥ प्रकर्षेण मिताक्षरापि एकत्र मितभापित्वादन्यत्र तु सूत्रत्वाच्चाल्पाक्षरापि सर्व विषयं राष्ट्रकार्य, देशं च परितो व्याप्तवती । सर्वत्र प्रवृत्तेत्यर्थः । प्रतिष्ठा प्रामाण्यं स्थिति गता गरीयसी भूयिष्ठार्था यदाज्ञा यस्य राज्ञः शासनं परिभाषा अनियमनिवारको न्यायविशेषः सेव कुतश्चित्कुत्रापि न प्रतिहन्यते खलु न बाध्यते हि । परिभाषा ह्येकदेशे स्थित्वा सर्वशास्त्रमभिज्व. लयतीति भाष्यकारः । 'इको गुणवृद्धी' इत्यादिका परिभाषा । 'सिचि वृद्धि:-' इत्यादिर्विषयः । उपमालंकारः । औपच्छन्दसिकं वृत्तम् ॥
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः। तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुन ः ॥ ८१ ॥ यामिति ॥ यां भुवमादौ पूर्व पुराणपुरुषो विष्णुः ऊढवराहमूर्तिर्धतवरहशरीरः स च नतु स्वरूपेणेति भावः । मुहूर्त क्षणमात्रमूढवान्तवान् क्षता. रिणा संहृतसकलविपक्षेण अत एवैनां पुनस्तेन राज्ञा । अविकृतेनेति भावः । अक्षतैव विपक्षैरनुपद्रुतैवासौ भूः सांप्रतमद्यापि न तु मुहूर्तमिति भावः । सम्यक् यथाशास्त्रमुह्यते धार्यते । वहेः कर्मणि लट् 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अत्र राज्ञो विष्णोराधिक्यकथनान्यतिरेकः । अत्र ध्वनिः । कश्चिवृद्धः स चोढवराहमूर्तिर्यामविकृतिमादौ प्रथम मुहूर्तमूढवान्परिणीतवानिति अत एव अक्षता पूर्वेण अक्षतयोनिका । अत एवासौ भूर्वोदुः क्षतारिणा । शौर्यादिगुणाढ्येनेत्यर्थः । तेन केनचियूना सांप्रतं पुनरुह्यते पुनः पुनः परिणीयते। 'सा चेदक्षतयोनिः स्यात्पुनःसंस्कारमर्हति' इति स्मरणादिति भावः । सा पुनर्भूरुच्यते इति योज्यम् । 'पुनर्भूर्दिधिधूरूढा द्विस्तस्या दिधिषुः पतिः' इत्यमरः । अत्राभिधायाः प्रकृतार्थ एव नियन्त्रणादप्रकृतार्थप्रतीतेनिरेव ॥
भूयांसः क्वचिदपि काममस्खलन्त
स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि । कल्लोलाः सलिलनिधेरवाप्य पारं
शीर्यन्ते न गुणमहोर्मयस्तदीयाः॥ ८२ ॥ भूयांस इति ॥ द्वयेऽपि समुद्रोर्मयो गुणोर्मयश्चेति द्वितया अप्यूर्मय इति ।