________________
षोडशः सर्गः।
४०९ यां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । महतामधमेष्ववज्ञैव नीतिरिति भावः । दृष्टान्तालंकारः ॥
किंच राज्ञो हरिणा विरोधोऽपि न योग्य इत्याहजितरोपरया महाधियः सपदि क्रोधजितो लघुर्जनः। विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥२६॥ जितेति ॥ महाधियः सुधियो जितो रोषरयो यैस्ते तथोक्ताः । लघुरल्पो जनस्तु सपदि क्रोधजितः । एवं विजितेन जितस्य । जितेन क्रोधेन जितस्येत्यर्थः । दर्मतेमवस्य मतिमद्भिः पण्डितैः सह विरोधिता स्पर्धा का । मूर्खपण्डितयो. मैत्रीव स्पर्धापि न संगतेत्यर्थः । मूर्खश्वायं चैद्य इत्यप्रस्तुतात्सामान्याद्विशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः॥
नापि चैद्यप्रलापैः कृष्णस्य किंचिल्लाघवमित्याशयेनाहवचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतः । किमपैति रजोभिरौर्वरैवकीर्णस्य मणेर्महार्यता ॥ २७ ॥
वचनैरिति ॥ उद्धतैर्निष्ठुरैरसतां दुर्जनानां वचनैर्महीयसो महत्तमस्य गुरुत्वं गौरवं न व्येति नापैति खलु । और्वरै मैः । 'उर्वरा सर्वशस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । रजोभिरवकीर्णस्य छन्नस्य मणेर्महार्यता महामूल्यस्वम् । मूल्ये पूजाविधावर्घः' इत्यमरः । अपैति किम् । नापैत्येवेत्यर्थः । अत्र मणिमहीयसोवाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । महीयस इति सामान्याद्धरेरिति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः । हरिमण्योरुपमाध्वनिश्च ॥
युक्तं चैतत्पारुष्यं दुरात्मनामित्याहपरतोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः । परदोपकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ २८ ॥
परेति ॥ यस्य देहिनो जन्तोः परतोषयिता परेषामानन्दयिता स्वगतो गुणः कश्चन कश्चिदपि नास्ति । अल्पकः तुच्छः स इति शेषः । यत्तदोर्नित्यसंबन्धात् । परदोषकथाभिरन्यजनदोषोक्तिभिः स्वजनं । न तु मध्यस्थमिति भावः । तोपयितुमिच्छति किल ईहते खलु ! चैद्यस्यापि निर्गुणत्वात्परदूषणं युक्तमिति । अत एवाप्रस्तुतप्रशंसाभेदः ॥ नन्वात्मनो निर्दोषत्वाभिमानादित्थं विजृम्भणमित्याशङ्कयाहसहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोचगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥२९॥
सहजेति ॥ असाधवः खलाः स्वदुर्नये स्वदोषे । महत्यपीति भावः । सहजा स्वाभाविकी अन्धा अपश्यन्ती इग्येषां ते । जात्यन्धा इत्यर्थः । परदोषाणां
३५ शिशु