________________
४०८
शिशुपालवधे कारिणी अहो आश्चर्यम् । 'कृजो हेतु-' इत्यादिना ताच्छील्ये टप्रत्यये 'टिड्डाणञ्-' इत्यादिना ङीप् । हरिचैद्यावेवभूताविति सैवाप्रस्तुतप्रशंसा ॥
परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः । परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ २३ ॥
परितप्यत इति ॥ किंच उत्तमः परवृद्धिभिर्न परितप्यते न व्यथत एव । उत्तमस्यापरशुभद्वेष इव नास्तीत्यर्थः । अपरो मध्यम एवेत्यर्थः । परितप्तोऽपि शोभना संवृतिः परितापगोपनं यस्य सः सुसंवृतिः । सन्तमपि परशुभद्वेषं न प्रकाशयतीत्यर्थः । अधमस्तु परवृद्धिभिराहितव्यथः उत्पादितसंतापः तथा स्फुटं निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः । परशुभद्वेषं प्रकाशयत्येवेत्यर्थः । चैद्यश्चाधमो हरिस्तूत्तम इति प्रतीतेः पूर्वोक्त एवालंकारः॥ ननु मानिनां परोत्कर्षे परद्वेषो भूषणमेवेत्याशक्य नेत्याह
अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् । खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ २४ ॥ अनिराकृतेति ॥ अनिराकृता अनिवारिता तापसंपत्तापातिशयो यया ताम् । एकत्र संतापजननैकस्वभावादपरत्रासतच्छायाविरहाच्चेति भावः । तथा फलहीनाम् । एकत्र इहामुत्र चोपकारशून्यां प्रत्युतोभयत्राप्यनर्थकरी चेति भावः। अन्यत्र सर्वार्थरहितां सुमनोभिर्बुधैरुज्झितां अन्यत्र पुष्पैर्वर्जिताम् । 'सुमना पुष्पमालत्योः स्त्री देवबुधयोः पुमान्' इति वैजयन्ती। असती दुष्टाम्, अन्यत्र निरुपाख्यां खलस्य भावः खलता तां खलतां दुर्जनत्वम् । खस्य लता तां खलतां गगनलतिकामिव बुधो जनः सदसद्विवेककुशलो जनः कथं प्रतिपद्येता. वलम्बेत । न कथमपीत्यर्थः । वृथा मत्सरो न कस्यापि गुण इति भावः। तथापि स खलतां प्रतिपद्यते न चैवं हरिरिति प्रतीतेः सैवाप्रस्तुतप्रशंसा खलतामिवे. त्युपमया संकीर्यते । 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति न्यायाद. सत्याया अपि खलतिकायाः प्रतीतिसत्यतया खलतोपमत्वप्रसिद्धिः ॥
नन्वेवं महानुभावो हरिः किमर्थं तथा सदसि राज्ञा निर्भय॑मानो मौनमास्थित इत्याशङ्कय सत्यमनादरान्न तु कातर्यादित्याहप्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे । अनुहुंकुरुते धनध्वनिं न हि गोमायुरुतानि केसरी ॥ २५ ॥ प्रतीति ॥ केशवः शपमानाय क्रोशते। स्वरितेत्त्वादात्मनेपदम् । चेदिभू. भुजे । क्रियाग्रहणात्संप्रदानत्वम् । प्रतिवाचं प्रत्युत्तरं नादत्त । केसरी सिंहो धनध्वनिमनुहुंकुरुते प्रतिगर्जति । गोमायुरुतानि शिवारुतानि नानुहुंकुरुते । 'स्त्रि.