________________
षोडशः सर्गः।
- प्रकटमिति ॥ प्रकाशं प्रकटं मृदु नाम मृदुकल्पं जल्पतः कथयतः । अन्तरान्तः परुषमनिष्टमर्थं सूचयतः ईदृशादन्तःशुद्धिशून्यात्पुरुषादीदृशः शकुनादिव बहिः शुभंकरं कुर्वतोऽन्तरा परुषं सूचयतः पिङ्गलादिपक्षिण इव मार्गवर्तिभिः सन्मार्गवर्तिभिरध्वगैश्चोद्विजितव्यम् । नचांशतोऽपि ग्राह्यम्, विषसंपृक्तान्नवदखिलस्यानर्थहेतुत्वादिति भावः । 'विज इट्' इतीटः कित्त्वान्न गुणः ॥
एवं दूतं निर्भय॑ अथ चैद्यं तद्दोषोद्घाटनपूर्वकं भर्त्सयतेहरिमर्चितवान्स भूपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः। न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ २० ॥ हरिमित्यादि ॥ स भूपतियुधिष्ठिरो हरिमर्चितवान्यदि पूजितवांश्चेत् । अत्र हर्यर्चनेन तव राज्ञश्चैद्यस्य मत्सरः कः । निरर्थक इत्यर्थः । ससौरभस्य परिमलयुक्तस्य तरुसूनस्य । तरुग्रहणं सूनस्य साधारणताद्योतानार्थम् । शिरसि न्यसनायार्पणाय कोऽसूयति । न कोऽपीत्यर्थः । 'क्रुधद्रुह-' इत्यादिना संप्रदानसंज्ञा । सर्वत्र गुणवद्वस्तु गुणज्ञैर्बहु मन्यते, तटस्थानां किमत्र वृथा संता. पेनेति भावः । अत्र हरितरुसूनयोर्वाक्यद्वये बिम्बप्रतिबिम्बभावेना_शिरोधारणरूपसमानधर्मनिर्देशादृष्टान्तालंकारः ॥
अथ कथं महान्महतः पूजां सहत इत्याशङ्कय हरिचैद्ययोर्महदन्तरं मनसि निधाय सामान्यतः सुजनदुर्जनयोरन्तरं चतुर्भिराह
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः। सहसैव समुगिरन्त्यमी क्षपयन्त्येव हि तन्मनीषिणः ॥२१॥
सुकुमारमित्यादि ॥ लघीयसामल्पीयसां हृदयं सुकुमारं तुच्छम् । कुतः यतोऽमी लघीयांसस्तद्गतं हृदयगतमप्रियं सहसैव झटित्येव समुद्रिन्ति समु. चारयन्ति । मनीषिणस्तु तदप्रियं कथंचित् । संभाव्यमानमपीति शेषः । अन्त. रेव क्षपयन्ति जरयन्ति । न तूगिरन्तीत्यर्थः । अहो इत्याश्चर्ये । चैद्यश्चोद्भिरति नैवं हरिरित्यहो महदन्तरमनयोरिति भावः । अत एवाप्रस्तुतात्सामान्यात्प्रस्तु. तविशेषप्रतिपत्तिरूपोऽयमप्रस्तुतप्रशंसाभेदः । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥' इति लक्षणात् । आदिशब्दा. त्सामान्यविशेषसंग्रहः । एवमुत्तरश्लोकत्रयेऽपि द्रष्टव्यं, विशेषं तु वक्ष्यामः ॥
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः॥ २२ ॥ उपकारेति ॥ किंच सज्जनः स्वभावतः सततं सर्वजनस्योपकारपरो भवति । नतूपाधिवशात्कदाचित्कस्यचिदेवेति भावः । तथापि सर्वोपकारित्वेऽपि तदुन्नति. स्तस्य सज्जनस्योत्कर्षः असतामसाधूनामनिशं गुरुहृद्रोगकरी अत्यन्तहृदयसंताप