________________
४०६
शिशुपालवधे इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः। वदति स वचोऽथ चोदितश्चलितैकश्रु रथाङ्गपाणिना ॥१६॥ इतीति ॥ इतीत्थं गां वाचम् । 'अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । अभिधाय जोपमवस्थितम् । 'तूष्णीं जोपं भवेन्मौने' इति वैजयन्ती । द्विषः प्रणिधिं दूतं सात्यकिः शैनेयः अथ दूतवाक्यानन्तरं रथाङ्गं चक्र पाणौ यस्य तेन रथाङ्गपाणिना हरिणा । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । चलिता प्रेरिता एका भूर्यस्मिन्कर्मणि तत् । 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । चोदितः । अस्योत्तरं देहीति भूसंज्ञया प्रेरितः सन्नित्यर्थः । वचो वदति स्मावादीत् ॥ किं तद्वचस्तदेकविंशतिश्लोकैराहमधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया। सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १७ ॥ मधुरमित्यादि ॥ कृतिना कुशलेन त्वया बहिः प्रकाशे मधुरं प्रियं अन्तनर्भऽप्रियं वचस्तथा तेन प्रकारेणावाचि उक्तम् । वचेः कर्मणि लुङि चिणि वृद्धिः । यथा येन प्रकारेण सकलार्थतया संपूर्णोभयार्थतया हेतुना अन्तःप्रिय बहिरप्रियं विभाव्यतेऽवधार्यते । अप्रियगर्भे प्रियं यदुक्तं तदस्माकं तु प्रियगर्भमप्रियमेव प्रतीयते । इदमुक्तिचातुर्यं तवैवेत्यभिप्रेत्योक्तं कृतिनेति । अतो न श्रद्धयमिदं वच इति भावः ॥ अथवा बहिरेव प्रियं अन्तरेवाप्रियं तथापि न ग्राह्यमित्युपमया व्यनक्तिअतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृन्तकर्कशम् । वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १८॥
अतीति ॥ एकतो बहिरतिकोमलम् , अन्यतः अन्तः सरसमाई यदम्भोरुहस्य वृन्तं प्रसवबन्धनं तदिव कर्कशं परुषं एकमेव ते तव वचनं ईषदसमाप्तं शाकपलाशं महापत्राख्यतरुपत्रं तत्तुल्यम् । 'शाकः पलाशसारः स्याद्वरदारुः करच्छदः । महापत्रो महाशाकः स्थिरदारुहनीटकः (2)॥' इत्यभिधानरत्नमालायाम् । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति देश्यप्रत्ययः। कल्पदेश्यदेशीयानि सादृश्यवाचकानीति दण्डी । तस्य भावस्तत्ता तां स्फुटं वहति । अन्त:परुषस्य बहिर्माधुर्यं शाकपलाशवदिति भावः । अत्र शाकपलाशोपमायाः पद्मवृन्तोपमासापेक्षत्वात्संकरः॥
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा। " शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशात् ॥१९॥