________________
षोडशः सर्गः ।
४०५
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् । समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥ १३ ॥
चलितेति ॥ रभसाद्धर्षादुपागतः प्राप्तस्तं चैद्यं त्वं पुरश्चलितानकदुन्दुभिः पुरोगतवसुदेवः । 'वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः' इत्यमरः । सबलो बलभद्रसहितः । सारणेन सारणाख्येन पुत्रेण सह सगदः गदाख्येनानुजेन सहितः समितौ सभायां संप्रतिपत्तुं संभावयितुमर्हसि । सर्वबन्धुसमेतः प्रत्येतुमर्हसीत्यर्थः ॥ ॥ परुषस्तु – समितौ समरे रभसाद्वेगादुपागतः । रभसो वेगहर्षयोः । समितिः समरे साम्ये सभायामपि संगता' इत्युभयत्रापि विश्वः । तं चैद्यं पुरतश्चलिता आनकाः पटहाः, दुन्दुभयो भेर्यश्च यस्य सः । ' आनकः पटोsar स्याद्भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । सबलः ससैन्यः । सगदः गदया कौमोदक्या सहितः सन् सहसा झटिति रणेन युद्धेन संप्रतिपत्तुमभियोतुमर्हसि । अत्रापि शब्दार्थश्लेषसंकरः ॥
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति । सुचिरं सह सर्वसात्वतैर्भव विश्वस्त विलासिनीजनः ॥ १४ ॥
1
समरेष्विति ॥ किंच समरेषु रिपुन्विनिघ्नता । अतिशूरेणेत्यर्थः । शिशुपालेन समेत्यैक्यं प्राप्य संप्रति सुचिरं बहुकालं सत्वतः अपत्यानि पुमांसः सात्वता यादवाः । 'उत्सादिभ्योऽञ्' । तैः सर्वैः सर्वसात्वतैः सह विश्वस्त विलासिनीजनः शिशुपालभयनिवृत्तिविश्रब्धविलासिनीजनो भव । 'समौ विश्रम्भविश्वासौ' इत्यमरः ॥ ॥ परुषस्तु — रिपुघातिना शिशुपालेन सह समरेषु समेत्य संगत्य संप्रत्येव सर्वसात्वतैः सह विश्वस्तविलासिनीजनो भव । 'विश्वस्ता विधवे समे' इत्यमरः । ‘आदितश्च' इति चकारादनुक्तसमुच्चयार्थाच्छ्रसेर्निष्ठायामिदप्रतिषेधः । शिशूनामनुद्धतानामेवायं पालयिता नोडतानामिति सर्वथा यादवा - नचैव हनिष्यतीति भावः ॥
विजितक्रुधमीक्षतामसौ मदतां त्वामहितं महीभृताम् । असज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ।। १५ ।।
विजितेति ॥ असौ महीपतिश्चैद्यः मुदितः सन् विजितक्रुधं मैत्रीबन्धान्निरस्तक्रोधं महतां महीभृतां राज्ञां महितं पूजितम् । 'मतिबुद्धि-' इत्यादिना वर्तमाने क्तः । तद्योगे षष्ठी । असकृद्बहुशो जिताः संयतः आजयो येन स तम् । 'समुदायः स्त्रियां संयत्समित्याजि समिद्युधः' इत्यमरः । सप्रमदं सहर्षं त्वा त्वाम् । 'वामौ द्वितीयायाः' इति त्वादेशः । पुरोऽग्रे ईक्षतां पश्यतु ॥ ॥ परुषस्तु — विजितक्रुधं संत्यक्तक्रोधं महतां महीभृतां चैद्यादीनामहितमरिमस कृजितश्चासौ संयतश्च । स्नातानुलिप्तवत्पूर्वकालेति समासः । ' बद्धो नद्धश्च संयतः' इति वैजयन्ती । सप्रमर्द सखीकं त्वामिति पदच्छेदः । असकृदीक्षताम् ॥