________________
शिशुपालवधे
नागकदम्बकैर्गजवृन्दैः परितः परिकीर्णा व्याप्ताः अत एव दुरासदा दुष्प्रवेशा भवन्तु । राज्ञा संघाने महैश्वर्यं च ते भविष्यतीत्यर्थः ॥ ॥ परुषस्तु - घनजालनिभैः सान्द्रानायतुल्यैः । ‘आनायः पुंसि जालं स्यात्' इत्यमरः । नागकदम्बकैः सर्पसंधैर्वनजैर्मृगादिभिर्मृगव्याल पुलिन्दप्रभृतिभिः । अथवा मृगादिभिः मृगभक्षकैः शार्दूलादिभिः दुरासदा भवन्तु । राजविग्रहादरण्यप्रायं गता भवन्त्वित्यर्थः ॥
1
४०४
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः । रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ ११ ॥
सकलेति ॥ उन्नतमुदारं धीरमविकारं चेतो यस्य तस्य ते तव रिपुः सकलैरपिहितं तिरस्कृतं स्वपौरुषं यस्य सः नियता नित्याः व्यापदो विशिष्टापदो यस्य सः | अवर्धितोदयोऽसंपूरिताभ्युदयः सततव्याधिः सततरोगः अनीतिनतिरहितः एवंविधोऽस्तु ॥ ॥ परुषस्तु – अचेतसोऽमनस्विनः ते रिपुश्चैद्यः सकलैरपिहितस्वपौरुषः अतिरस्कृतात्मविक्रमः । ' वष्टि भागुरिरलोपमवाप्यो रुपसर्गयोः' इत्यलोपे नञ्समासः । नियतं नित्यं व्यापद्विगतापत् अवर्धितोदयोऽच्छिन्नोदयः । 'वृधु च्छेदने वृद्धौ' इति धातोः कर्मणि क्तः । उन्नतधीरुदारबुद्धिः सततव्याधिविगताधिर्मनोव्यथारहितः । अनीतिरीतिबाधारहितोऽस्तु । ' अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः पडेता ईतयः स्मृताः ॥' अत्र सर्वत्र पदभङ्गेनार्थद्वयप्रतिपादनाज्जतुकाष्ठवदेकशब्दप्रतीतेः शब्दश्लेषः ॥
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।
यदुपुंगव बन्धुसौहृदाच्वयि पाता ससुरो नवासवः ॥ १२ ॥ विकचेति ॥ पुमान्गौरिव पुंगवः पुरुषर्षभः । उपमितसमासः । 'गोरतद्धितलुकि' इति समासान्तष्टच्प्रत्ययः । यदुषु पुंगव यदुश्रेष्ठ । 'श्रेष्ठोक्षाणौ तु पुंगat' इति वैजयन्ती । चैद्येन कर्त्रा घटां घनसंधिमुपेयुषस्तव संबन्धीनि विकचोत्पलानि वासनार्थविहितानि तान्येव चारुलोचनानि यस्य सः । सह सुरया माध्ध्या गौड्या वा ससुरः 'गौडी पैष्टी च माध्वी च विज्ञेया सा सुरा त्रिधा' इति वचनात् । अत्र क्षत्रियवैश्ययोः पैष्ट्यामेवमेव निषेधः । नवासवो नवमद्यं नालिकेरादिकमिति सुरासवयोर्न पौनरुक्तत्यम् । बन्धुसौहृदान्धव स्नेहात्पाता पास्ते हे सह पानं करिष्यते । संप्रति ते सत्प्रतिपथत्वादिति भावः । पिबतेः कर्मणि लुट् ॥ ॥ परुषस्तु – हे यदुपुंगव यादवबलीवर्द, चैद्येन सह घटामुपेयुषः समराभियोगं गतस्य तव विकचोत्पलचारुलोचनः ससुरः सदेव वासवोsपि बन्धुसौहृदात् । उपेन्द्रे त्वयि सौभ्रात्रादित्यर्थः । पाता त्राता न किं पुनर्मका भीष्मादय इति भावः । पातेस्तृच् । सुहृदयस्य भावः सौहृद - मिति विग्रहः । युवादित्वादण्प्रत्ययः 'हृदयस्य हृल्लेख-' इति हृद्भावविधानसामर्थ्यान्न 'हृद्भग-' इत्युभयपदवृद्धिः । अतएव 'सौहृदौहशब्दाभ्यामणि हृद्भावो' इति वामनः । सुहृदस्तु सौदार्हमेव । शब्दार्थ श्लेषसंकरः ॥