________________
षोडशः सर्गः।
परुषस्तु-त्वया सदृशोऽन्यो गुणवान्न भवतीत्यगुणवान्निर्गुणः कुतः । न कुत्रापीत्यर्थः । कुतः त्वमहिताच्छनोस्त्रसन् भीरुः । नास्त्यपत्रपा लज्जाविशेषो यस्येत्यनपत्रपो निर्लजः । 'लज्जा सापत्रपान्यतः' इत्यमरः । नतिमात्रेण प्रणामेनैवोज्झितभीरपाकृतारिभयः न तु पराक्रमेणेति भावः । अम्ति मतिरस्येत्यास्तिकोऽस्तिपरलोकः । पूर्ववट्ठक् । स न भवतीत्यनास्तिकः । नास्तिक इत्यर्थः । विनयो नयातीतः अपहितो हितादपेतः विस्मयो विगर्यो न भवतीत्यविस्मयो गर्वी । गर्वयुक्त इत्यर्थः । अत्राहितादित्यर्थश्लेषः । अन्यत्र शब्दश्लेष इत्यनयोः संकरः ॥
कृतगोपवधूरतेनतो वृषमुग्रे नरकेऽपि संप्रति । प्रतिपत्तिरधः कुतैनसो जनताभिस्तव साधु वर्ण्यते ॥ ८॥ कृतेति ॥ गोप्य एव वध्वो गोपवध्वः । 'स्त्रियाः पुंवत्-' इत्यादिना पुत्रद्भावः । तासु रतिः कृता येन तस्य । गोपीजनवल्लभस्येत्यर्थः । वृषं वृषभरूपिणमरिष्टाख्यमसुरं नतो मारयतः। हन्तेर्लटः शत्रादेशः । अधःकृतैनसो निरस्तकल्मषस्य तवोग्रे भयंकरे नरके नरकासुरे प्रतिपत्तिः प्रवृत्तिः । पुरुषकार इति यावत् । संप्रति जनताभिर्जनसमूहैः साधु वर्ण्यते । अहो महदुष्करं कृतमित्युपश्लोक्यते ॥ ॥ परुषस्तु-गोपानां वधूषु रतिः कृता येन तस्य पारदारिकस्य वृषं धर्म, वृषभं वा नतः । 'सुकृते वृषभे वृषः' इति विश्वः । अत एव कृतैनसः पापकृतः तेन उग्रे दारुणे नरके निरये अधःप्रतिपत्तिरधःप्राप्तिः । 'प्रतिपत्तिः पदप्राप्तौ पौरुषे गौरवेऽपि च' इति विश्वः । जनताभिः साधु वर्ण्यते । दुस्तरोऽस्य पापिष्टस्य नरकपात इत्युद्धोध्यत इत्यर्थः । अत्र गोपपरदारिकोऽप्यधःकृतैना इति विरोधाभासः.श्लेषेण संकीर्यते ॥
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः। भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥९॥ विहितेति ॥ सहानुचरः सानुचरः सभृत्यो महीभृता चैयेन विहितापचितिः कृतपूजः लोकवेदयोः सानुचरस्यैव राज्ञः पूज्यत्वप्रसिद्धेरिति भावः । अत एव बलैः सैन्यैर्द्विषतां शत्रूणामाहितसाध्वसो जनितभयः सन् महतामपि क्षमाभृतां राज्ञामुपर्युच्चकैरुन्नतस्त्वं भव सर्वोत्कर्षेण वर्तस्व ॥ ॥ परुषस्तु-महीभृता चैद्येन विहितापचितिः कृतहानिः । 'भवेदपचितिः पूजाव्ययहानिषु निष्कृतौ' इति विश्वः । अत एव द्विषतां बलैराहितसाध्वसो भीषितः सन् महतां क्षमाभृतां भूधराणामुपरि सानुषु चरतीति सानुचरः स भव । चरेष्टः । अत्रापि शब्दार्थश्लेषसंकरः ॥
घनजालनिभर्दुरासदाः परितो नागकदम्बकैस्तव । नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥१०॥ घनेति ॥ तव नगरेषु वीथयो रथ्या घनजालनिर्भर्मेघसमूहकल्पैः वनजैबनभवैर्मुगादिभिः मृगप्रभृतिभिः। भद्रो मन्द्रो मृगश्चेत्येवं विविधैरपीत्यर्थः ।