________________
शिशुपालवधे
स्तव शासनं शास्ति शिक्षा करिष्यते यतस्त्वयैव परवाशत्रुमान् । त्वमेक एवास्य शत्रुरवशिष्ट इति भावः । अन्यत्समम् । 'शासनं राजदत्तोा लेखाज्ञाशास्त्रशास्तिषु' इति विश्वः ॥ प्रणामे हेतुमाहअधिवह्नि पतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः। तव सर्वविधेयवर्तिनः प्रणति विभ्रति केन भूभृतः ॥५॥
अधीति ॥ अधिगतं वहिपतङ्गयोरग्निभान्बोरिव तेजो येन तस्य । तत्तुल्यतेजस इत्यर्थः । नियतस्वान्तो नियतचित्तः स चासौ समर्थकर्मा च खञ्जकुजवहिशे. षणसमासः। तस्य तथोक्तस्य सर्वे विधेयवर्तिनो वशवर्तिनः कर्मकरा यस्य तस्य तव के भूभृतः प्रणति नतिं न विभ्रति । सर्वेऽपि विभ्रतीत्यर्थः ॥ ॥ परुषस्तु-प्रणामे हेतुमाह-अधिवह्नि अग्नौ पतङ्गस्य शलभस्येव तेजः पौरुषं यस्य तस्य । 'पतङ्गः शलभे भानौ' इति विश्वः । नियते अव्यभिचारे स्वान्ते स्वविनाशे समर्थं हेतुभूतं कर्म यस्य तस्य सर्वेषां विधेये वर्तते विधेयं वर्तयति वा सर्वविधेयवर्तिनः सर्वकिंकरस्य निष्पौरुषस्य तव केन गुणेन भूभृतः प्रणतिं बिभ्रति । न केनापीत्यर्थः ।
जनतां भयशून्यधीः परैरभिभृतामवलम्बसे यतः । तव कृष्ण गुणास्ततो नरेरसमानस्य दधत्यगण्यताम् ॥६॥ जनतामिति ॥ हे कृष्ण हे हरे, भयशून्यधीनिर्भीकचित्तः सन् परैः शत्रुभिरभिभूतां जनतां जनसमूहम् । 'ग्रामजन-' इत्यादिना समूहे तल प्रत्ययः । यतोऽवलम्बसे परिगृह्णासि । रक्षसीत्यर्थः। ततोहेतोर्नरैरसमानस्य सर्वोत्कृष्टस्य तव गुणा आर्तभूतभरणादयः अगण्यतामसंख्येयतां दधति ॥ ॥ परुषस्तु-हे मलिनात्मक, भयशून्यधीर्मूढबुद्धिः परैस्त्वदन्यैः । परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः' इत्युभयत्रापि वैजयन्ती । अभिभूतामवधीरितां जनतां पशुपालनपारतत्र्यादिना पृथग्जनत्वम् । भावेऽर्थे तल्प्रत्ययः । यतोऽवलम्बस आश्रयसि । ततो नरैरसमानस्य । ततोऽपि हीनस्येत्यर्थः । तव गुणाः लेशतः स्वभावतोऽपीति भावः । अगण्यतामनादरणीयतां दधति ॥
अहितादनपत्रपत्रसन्नतिमात्रोज्झितभीरनास्तिकः । विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ॥७॥
अहितादिति ॥ त्वया सदृशोऽन्यो गुणवान्गुणाढ्यः कुतः । न कुत्रापीत्यर्थः । कुतस्त्वं अहितादनाबसन् । अधर्मभीरुरित्यर्थः । अपत्रपो निस्पो न भवतीत्यनपत्रपस्त्रपावान् । अकार्यजुगुप्सुरित्यर्थः । अतिमात्रमत्यन्तमुज्झितभीः । त्यक्तारिभय इत्यर्थः । नास्तीति मतिरस्येति नास्तिकः नास्तिपरलोकः । 'अस्तिनास्तिदिष्टं मतिः' इति ठक् । स न भवतीत्यनास्तिकः । आस्तिक इत्यर्थः । विनयेनानौद्धत्येनोपहितो विशिष्टः । विनयवानित्यर्थः । विस्मयो विशिष्टगर्वो न भवतीत्यविस्मयोऽगर्वः ॥