________________
५१०
शिशुपालवधे
समासान्तोऽच् प्रत्ययः । 'गत' इति पाठे गतं संतमसं येषां तैः यदुयोधैर्याद वभटैर्भूयः पुनरपि जवेन युधि द्विषन्तो रेधिरे जिहिंसिरे। हता इत्यर्थः । राध्य. तेः कर्मणि लिट् । 'राधो हिंसायाम्' इत्येत्वाभ्यासलोपौ । तथाहि वारिधरोपरो. धान्मेघापवरणान्मुक्तः प्रभाणां धुतीनां पतिरकः सुतरामुत्तपत एव ननु प्रकाशत एव खलु । 'उद्विभ्यां तपः' इत्यात्मनेपदम् । अत्र यदुयोधानां द्युतिपतेश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । न चोपमानोपमेययोभिन्नवचनत्वदोषः । लोके चन्द्रार्कादीनामुपमानानामबहुत्वेऽपि चन्द्रानना इतिवत्प्रत्येकमौपम्यात् ॥ व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे । रिपुरुल्बणभीमभोगभाजां भुजगानां जननी जजाप विद्याम् ४१
व्यवहार इति ॥ व्यवहारे न्यायवादे अनृताभियोगं मिथ्याभिशंसनमिव प्रकाशे कौस्तुभतेजसि तिमिरं प्रस्थापनान्धकारं निर्जितवति निरस्तवति सति अथैतन्निरसनानन्तरं रिपुश्चैद्य उल्बणान्महतो भीमांश्च भोगान् फणान् , कायांश्च भजन्तीति तद्भाजः । 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इत्यमरः । भुजगानां जननीमुत्पादिकां विद्यां मन्त्रं जजाप जपति स्म। भुजगास्त्रमाजहारेत्यर्थः । उल्बणेत्यत्र क्वचिदुत्फणेति पाठः । उपमालंकारः॥ पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः। अभवन्युगपद्विलोलजिह्वा युगलीढोभयसृकभागमाविः॥४२॥
पृथ्विति ॥ ततो भुजगास्त्रप्रयोगानन्तरं पृथुदर्विभृतः । महाफणाधारिण इत्यर्थः । अत एव 'दर्वीकरो दीर्घपृष्ठ' इत्यत्र दर्वीरूपः फण एव करो हस्तो यस्य प्रहारादाविति व्याख्यातम् । आशीभिदंष्ट्राभिः । 'आशी उरगदंष्ट्रायाम्' इति वैजयन्ती । अनारतमश्रान्तं विषं वमन्त उनिरन्तः फणीन्द्रा महासर्पाः विलोलेश्वञ्चलैर्जिह्वायुगैर्लीढावास्वादितावुभौ सृक्कभागावोष्टप्रान्तदेशौ यस्मिन्कर्मणि तत्त. था । 'प्रान्तावोष्टस्य सृक्कणी' इत्यमरः । आविरभवन् । अत्र 'उभादुदात्तो नित्यम्' इति नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगः उभयपुत्र इत्यादि प्रयोगसिद्धेरिति कव्युक्तमस्माभिः प्रकटितं बहुधा संजीविन्यां घण्टापथे सर्वकषायां च तत्र तत्र । स्वभावोक्तिरलंकारः ॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः ॥ ४३ ॥
कृतेति ॥ कृतकेशविडम्बनैः काया॑द्विहितकेशानुकारैः छलेन कपटेन विजयमिच्छुभिरभिलाषुकैः । 'विन्दुरिच्छुः' इति उप्रत्ययान्तो निपातितः : 'न लोक-' इत्यादिना षष्टीप्रतिषेधः । विहाय आकाशं तत्क्षणं कावेयैः कद्रुपुत्रैः फणीन्द्रैः। 'स्त्रीभ्यो ढक्' इति ढक् । पुरा पूर्वमिव अमृताग्रभुवोऽमृताग्रस्य वडवाभर्तुः उच्चैःश्रवसः पुच्छं अवारि आवृतम्। वृतेः कर्मणि लुङ् । पुरा किल कद्रुविनतयोः कश्यपभार्ययोरुचैःश्रवसः पुच्छस्य कार्ण्यश्चैत्यविवादे दास्यपणे कागवेयैः स्वमा