SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः । ५०९ च्छन्ति केवले' इति विश्वः । तत्र निद्राणलोके अजागः जागर्ति स्म । सर्वान्धकारहारिणो नित्यप्रकाशचिदात्मनः तत्रापि कार्यग्रस्तस्य कुतो निद्वेति भावः । जागर्तेर्लुङि तिप् । अदादित्वाच्छपो लुकि सार्वधातुकगुणे रपरे 'हल्ड्याप्-' इति तिलोपे च रेफस्य विसर्जनीयः । अत्र समुद्रनिद्रालोस्तत्रैव जागरे विरोधपरिहारमुखेन कार्यजागरूकत्वपरमपुरुषत्वयोर्विशेषणगत्या तात्त्विकजागरणहेतुकत्वाद्विरोधाभाससंकीर्ण काव्यलिङ्गम् ॥ अथ सूर्यरुचीव तस्य दृष्टावुदभूत्कौस्तुभदर्पणं गतायाम् । पटु धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ३७ 1 अथेति ॥ अथान्धकारव्यात्यनन्तरं तस्य हरेर्दृष्टौ चक्षुषि । तेजसीत्यर्थः । सूर्यरुचीव सूर्यतेजसीव । कौस्तुभो दर्पणमिवेत्युपमितसमासः । सूर्यरुचीवेति लिङ्गात्। तं कौस्तुभदर्पणं गतायां प्रविष्टायां सत्यां ततः कौस्तुभात्पटु सर्वान्धकारद्रावणे समर्थं धाम तेज उदभूदुदगात् । तद्धामोद्भवनं न चाद्भुतं, कुतः । असौ विभुर्भगवान् कर्केन्दु विलोचने यस्य सः किल खलु । अतस्तच्चक्षुषोः सूर्या`त्मकत्वात्तदभिहतात्कौस्तुभाद्दर्पणादेरिव धामप्रादुर्भावो व्यज्यत इत्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुम्मुखेषु । व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः॥३८॥ महत इति ॥ स पूर्वोक्तो मणेः कौस्तुभस्यांशुचयः विकसन्ति उन्मीलन्ति विलोचनानि येषां तेभ्यो बलेभ्योऽनाविलं प्रसन्नमालोकं दर्शनं, तत्वज्ञानं च ददत्प्रतियच्छन् । महतो महात्मनः प्रसादोऽनुग्रहः प्रणतेषु भक्तेष्विव ककुम्मुखेषु ककुभामप्रेषु व्यकसदमूर्च्छत् । पूर्णोपमा ॥ प्रकृतिं प्रतिपादुकैश्च पादैश्चक्कृपे भानुमतः पुनः प्रसर्तुम् । तमसोऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥ ३९ ॥ प्रकृतिमिति ॥ प्रकृति स्वभावं प्रतिपादुकैः प्रतिपद्यमानैः । 'लषपतपद - ' इत्यादिना उकञ्प्रत्ययः । 'न लोक - ' इत्यादिना षष्ठीप्रतिषेधः । भानुमतोंऽशुमतः पादै रश्मिभिश्च पुनर्भूयः प्रसतुं चक्लृपे शेके । 'क्लृपू सामर्थ्ये' ‘भावे लिट्’ 'कृपो रो ल:' इति ऋकारस्थस्यापि रेफस्य लकारः । जीवलोकः प्राणिवर्गश्च तमसोऽन्धकारस्याभिभवात् । अभिभूतत्वादित्यर्थः । ' कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । सहसैव मूर्च्छामपास्य उदजीवदुदश्वसीत् । अत्रोज्जीवनस्यार्ककरप्रसारहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ 1 घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ||४०|| घनेति ॥ घनं सान्द्रं संतमसमन्धकारो येषु । ' अवसमन्धेभ्यस्तमसः' इति 1
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy