SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६४ शिशुपालवधे अथ पूर्वश्लोके इतिशब्दपरामृष्टानपररात्रप्रभृत्युत्तरोत्तरक्रमभाविनः प्रभातवृतान्तानासंर्गसमाप्ति वर्णयन्नाह - रतिरभसविलासाभ्यासतान्तं न यावनयनयुगममीलत्तावदेवाहतोऽसौ । रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥ २ ॥ रतीति ॥ रतिरभसविलासानां सुरतसंभ्रमलीलानामभ्यासेनावर्तनेन तान्तं क्लान्तं नयनयुगं कर्तृ । कामिनामिति शेषः । यावन्नामीलन मुकुलीभवति तावदेवासौ रजनिविरतिशंसी निशावसानसूचक उच्चैर्मृदङ्गः कामिनीनां भविष्यता उत्तरक्षणभाविना विरहेण विहितः कृतो निद्राभङ्गो यस्मिन्कर्मणि तद्यथा तथा आहतस्ताडितः । अत्र विरहशब्देन सामर्थ्यात्तच्चिन्ता लक्ष्यते । अन्यथा असतः सांप्रतिकनिद्राभङ्गहेतुत्वायोगादिति । अत्र रतितान्तत्वरजनि विरतिशंसनयोर्विशेषगत्या नेत्रनिमीलननिद्रा भङ्गहेतुत्वात्पदार्थहेतुके काव्यलिङ्गे ॥ स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् । anana महीयः शैशवे शापाणे अपलचरणकाब्दप्रेरणोतुङ्गिताग्रम् ।। ३ ।। स्फुटेति ॥ अल्पमूर्तेर्दूरत्वात्सूक्ष्मबिम्बस्य ध्रुवस्यौत्तानपादे: । 'ध्रुव औत्तानपादिः स्यात्' इत्यमरः । उपरिष्टात्स्फुटतरमुज्वलतरं व्यस्तं पर्यस्तमेतत्सुरमुनीनां सप्तर्षीणां मण्डलं शार्ङ्गपाणेः केशवस्य । कृष्णस्य तवेत्यर्थः । शैशवे प्रचलितस्य चपलस्य चरणकाऊस्याल्पचरणारविन्दस्य । 'अल्पे' इत्यल्पार्थे कन्प्रत्ययः । प्रेरणया नोदनेनोत्तुङ्गितमुत्तुङ्गीकृतमत्रं यस्य तत् । विपर्यासिताग्रमित्यर्थः । महीयो महत्तरं शकटमिव शकटाकारं शकटासुरशरीरमित्र स्फुरति दीप्यते । उपमालंकारः । पुरा किल बाल्ये कृष्णः शकटरूपधारिणं शकटासुरं पादघातेन पातयामासेति पौरा णिक कथात्रानुसंधेा ॥ प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति । मुहुरविशदवर्णा निद्रया शून्यशून्यां दपि गिरमन्तर्बुध्यते नो मनुष्यः ॥ ४ ॥ प्रहरकमिति ॥ स्वं स्वकीयम् । स्वपाल्यमित्यर्थः । प्रहर एव प्रहरको यामः । 'at यामप्रहरौ समौ' इत्यमरः । तमपनीय नीत्वा निदिदासता निद्रातुमिच्छता । निनातेः सन्नन्ताल्लटः शत्रादेशः । केनचिदतीतप्रहरपालेनेत्यर्थः । जागृहि प्रबुध्य
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy