________________
एकादशः सर्गः।
२६५ स्खेति प्रतिपदं पदेपदे उच्चैरुपहूतो मनुष्योऽनन्तरयामिको मुहुन्द्रिया भविवादवर्णामस्पष्टाक्षरामत एव शून्यशून्यां शून्यप्रकाराम् । अनर्थप्रायामित्यर्थः। 'प्रकारे गुणवचनस्य' इति द्विर्भावः 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवदावादवयवसुपो लुक् । गिरमयमहं जागर्मीति प्रतिवाचं दददपि प्रयच्छन्नपि । 'नाभ्यस्ता. च्छतुः' इति नुमागमप्रतिषेधः । अन्तरन्तःकरणे नो बुध्यते न जागर्ति । बुध्यते. देवादिकाकर्तरि लट् । अत्राप्रबोधप्रतिक्चनदानयोविरोधे अपिशब्दः । निद्राबानाभ्यां तत्समाधानाद्विरोधाभासोऽलंकारः ॥ विपुलतरनितम्बाभोगरुद्धे रमण्याः
शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् । रतिपरिचयनश्यन्नद्रतन्द्रः कथंचि
द्गमयति शयनीये शर्वरी किं करोतु ॥५॥ विपुलेति ॥ रमण्या विपुलतरस्य नितम्बस्याभोगेन विस्तारेण रुद्ध आक्रान्ते शयनीये शयितुमवकाशमनधिगच्छन्नलभमानो जीवितेशः प्रेयान्रतिपरिचयेन पुनःपुनः सुरतावृत्त्या नश्यन्ती निवर्तमाना निद्राया इयं नैदी निद्राप्रयुक्ता तन्द्रा आलस्यं यस्य स तथाभूतः सन् शर्वरी कथचिद्गमयति कृच्छ्रेण नयति । किं करोतु किमन्यत्कुर्यात् । शयनानवकाशे सुरतमेव कालयापनोपाय इति तत्रैव प्रवृत्त इति भावः । अत्र शयनीयस्येदृग्रोधासंबन्धेऽपि तत्संबन्धोक्तरतिशयोक्तिरलंकारः । तादृग्रोधस्स विशेषणगत्या शयनावकाशानधिगमहेतुत्वाकाव्यलिङ्गभेद इति संकरः ॥
क्षणशयितवियुवाः कल्पयन्तः प्रयोगा
नुदधिमहति राज्ये काव्यवदुर्विगाहे। गहनमपररात्रप्राप्तबुद्धिप्रसादाः
कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥६॥ क्षणेति ॥ क्षणं शयिताः सुरतश्रमापनोदाय विसुप्ता विबुद्धास्तदैव प्रबुद्धाः । यथाकालं प्रबुद्धत्वादिति भावः। क्षणशयितविबुद्धाः । स्नातानुलिप्तवत् 'पूर्वकाल-' इति समासः। महीपाः कवय इव अपररात्रे । रात्रे पश्चिमयाम इत्यर्थः । 'पूर्वापर-' इत्यादिना एकदेशिसमासे समासान्तोऽच् । 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । तत्र प्राप्तबुद्धिप्रसादा लब्धबुद्धिप्रकाशाः सन्तः उदधिमहति समुद्र. गम्भीरे । एकत्र तुरगादिभिरपरत्र रसभावादिभिश्चेति भावः । अत एव दुर्विगाहे दुष्प्रवेशे राज्ये काव्ये इव काव्यवत् । 'तत्र तस्येव' इति वतिप्रत्ययः । प्रयोगान्सामाधुपायानुष्टानानि, अन्यत्रार्थगुणसाधुशब्दगुम्फान्कल्पयन्तस्तयन्तः 'ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्' इति स्मरणादिति भावः । गहनं दुष्प्रापमन्यत्र दुर्दर्शमर्थजातं पुरुषार्थजातम् । त्रिवर्गमित्यर्थ। । अन्यत्र वाच्य
शिशु० २३