________________
२६६
शिशुपालवधे लक्ष्यव्यङ्ग्यरूपमभिधेयजातं चिन्तयन्ति विचारयन्ति । इवशब्दस्योपलक्षणत्वा. काव्यवदिति वतिप्रत्ययेऽप्यनेकशब्दार्थगता श्रौती पूर्णा वाक्यार्थोपमा काव्य. वदिति तद्धितगता, कवय इति समासगता चेति संकीर्णा ॥
क्षितितटशयनान्तादुत्थितं दानपङ्क
प्लुतबहुलशरीरं शाययत्येष भूयः । मृदुचलदपरान्तोदीरितान्दुनिनादं
गजपतिमधिरोहः पक्षकव्यत्ययेन ॥ ७॥ क्षितीति ॥ क्षितितटं भूतलमेव शयनान्तः शयनस्थानं तस्मादुत्थितम् । सुप्तोत्थितमित्यर्थः । अत एव दानपङ्कप्लुतबहुलशरीरं मदकर्दमोक्षितमहाकायं गजपतिमेषोऽधिरोहतीत्यधिरोह आरोहणः । पचाद्यच् । मृदु मन्दं चलता अपरान्तेन पश्चिमपादेनोदीरित उत्पादितोऽन्दूनिनादः शृङ्खलारवो यस्मिन्कर्मणि तद्यथा तथा। पक्ष एव पक्षकः पार्श्वः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । तस्य व्यत्ययेन । पार्थान्तरेणेत्यर्थः । भूयः शाययति शयनं कारयति । 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वम् । स्वभावोक्तिरलंकारः ॥
द्रुततरकरदक्षाः क्षिप्तवैशाखशैले
दधति दधनि धीरानारवान्वारिणीव । शशिनमिव सुरौघाः सारमुद्धर्तुमेते
कलशिमुदधिगुर्वी बल्लवा लोडयन्ति ।। ८॥ द्रुतेति ॥ द्रुततरकरा अतिलघुहस्तास्ते च ते दक्षाश्च बल्लवा गोपालाः । "आभीरः स्यान्महाशूद्रो गोपालो बल्लवस्तथा' इति वैजयन्ती । विशाखा प्रयोजनमस्येति वैशाखो मन्थनदण्डः । 'वैशाखमन्थमन्थानमन्थानो मन्थनदण्डके' इत्यमरः । 'विशाखापाढादण्मन्थदण्डयोः' इत्यण्प्रत्ययः । वैशाखः शैल इवेत्युपमितसमासः। साहचर्याक्षिप्तो वैशाखशैलो यस्मिन् । धीरान्गम्भीरानारवान्दधति दधनि दन्ति । 'विभाषा ङिश्योः' इति विकल्पादल्लोपाभावः । वारिणीव सुरौघाः शशिनमिव सारं नवनीतमुद्धर्तुमुत्क्रष्टुमुदधिरिव गुर्वीम् । 'उपमानानि सामान्यवचनैः' इति समासः। तां कलशिं कुम्भीमेते लोडयन्ति मनन्ति । एषापि पूर्वतरवत्पूर्णा वाक्यार्थोपमा वाक्यसमाससंकीर्णा च ॥
अनुनयमगृहीत्वा व्याजसुप्ता पराची
रुतमथ कुकवाकोस्तारमाकर्ण्य कल्ये । कथमाये परिवृत्ता निद्रयान्धा किल स्त्री
मुकुलितनयनैवाश्लिष्यति प्राणनाथम् ॥९॥ अनुनयमिति ॥ अनुनयं प्रियप्रार्थनामगृहीत्वा नाङ्गीकृत्य पराची पराङ्मुखी