________________
२७४
शिशुपालवधे
मप्राप्तोऽयं वायुर्वधूनां कुसुमानां च विमर्दैन संघर्षणोद्गन्धिद्गतगन्धेषु । गन्ध. स्येत्वम् । वेश्मान्तरेषु गृहान्तरेषु स्थास्तुतां स्थायित्वमेति । पूर्वोक्तसर्वोत्कृष्टसौरभलोभादिति भावः । 'ग्लाजिस्थश्च-' इति स्नुप्रत्ययः । वधुशब्दो ह्रस्वोकारान्तोऽप्यस्ति । यद्वा 'मधुकुसुम' इति पाठः । मधुयुक्तानि कुसुमानि तेषां विम. देनेत्यर्थः । अत्र वायोरस्थायित्वेऽपि स्थायित्वसंबन्धोक्तरतिशयोक्तिः। तथा विमदंगन्धस्य कमलादिगन्धादाधिक्यरूपव्यतिरेकप्रतीतेरलंकारेणालंकारध्वनिः ॥ नखपदवलिनाभीसंधिभागेषु लक्ष्यः ।
क्षतिषु च दशनानामङ्गनायाः सशेषः। अपि रहसि कृतानां वाग्विहीनोऽपि जातः
सुरतविलसितानां वर्णको वर्णकोऽसौ ॥ २९ ॥ नखपदेति ॥ नखपदेषु नखक्षतेषु वलिषु त्रिवलिषु नाभ्यां संधिभागेषु कृपरादिदेहसंधिस्थानेषु तथा दशनानां क्षतिषु दन्तव्रणेषु च सशेषः सावशेषः किंचिद्वेद्यमानः अत एव लक्ष्यो दृश्योऽङ्गनायाः संबन्धी असो वर्णयति वर्ण करोति रञ्जयतीति वर्णकोऽङ्गरागो वाग्विहीनो वागिन्द्रियरहितोऽपि सन् रहसि कृतानामपि सुरतविलसितानां सुरतचेष्टितानां वर्णयति वक्तीति वर्णको वक्ता । व्यञ्जक इत्यर्थः। वर्णयतेवुलप्रत्ययः । 'वर्णक्रियायां विस्तारे गुणोक्ती वर्णनेऽप्यदः' इति भट्टमल्लः । जातः नखक्षतादिष्वेव लक्ष्यमाणोऽङ्गरागोऽन्यत्र स्व वि. लोपाचेष्टाविशेषानुमापको जात इत्यर्थः। अत्र वाग्विहीनोऽपि रहस्यकृतानामपि वर्णको वक्तेति विरोधस्य व्यञ्जकत्वलक्षणया परिहाराद्विरोधाभासोऽलंकारः॥
प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकै
रधिगतरतिशोभैः प्रत्युषःप्रोषितश्रीः। उपहसित इवासौ चन्द्रमाः कामिनीनां
परिणतशरकाण्डापाण्डुभिर्गण्डभार्गः ॥३०॥ प्रकटेति ॥ उपसि प्रत्युपः। विभक्त्यर्थेऽव्ययीभावः । यद्वा प्रत्युषः प्रभातम् । 'उषःप्रत्युषसी अपि' इत्यमरः । तत्र प्रोषितश्रीभ्रंष्टशोभः अत एव प्रकटमलिनलक्ष्मा स्पष्टदृष्टकल कोऽसौ चन्द्रमाः मृष्टाः प्रमृष्टाः पत्रावल्यः पत्रभङ्गाः येषां तैः । 'नवृतश्च' इति कप् । तथाप्यधिगता रतिशोभा संभोगश्रीर्येषां तैः । परिणताः परिपक्काः शरकाण्डा बाणाख्यतृणकाण्डिकाः । 'शरो बाणे बालतृणे' इति शब्दार्णवे। तद्वदापाण्डुभिः कामिनीनां गण्डभागैर्गण्डस्थलैरुपहसित इवेत्युत्प्रेक्षा। पाण्डिमगुणनिमित्ता निष्कलङ्काः सकरकं समानमानिनमुपहसन्तीति भावः ॥ अथ काचित्खण्डिता नायिका सागसं प्रेयांसं प्रातरागतं पञ्चभिरुपालभतेसकलमपि निकामं कामलोलान्यनारी
रतिरभसविमर्भिनवत्यङ्गरागे ।