________________
एकादशः सर्गः।
२७५ इदमतिमहदेवाश्चर्यमाश्चर्यधाम्न
स्तव खलु मुखरागो यन्न भेदं प्रयातः॥ ३१ ॥ सकलमित्यादि । कामेन लोलाया अन्यनार्याः सपल्या रतिरभसेषु सुर. तसंभ्रमेषु विमर्दैः पीडनैः । रज्यतेऽनेनेति रागः अङ्गस्य रागोऽङ्गरागः विलेपनं, अङ्गविकासश्च तस्मिन्नङ्गरागे सकलमपि निःशेषं यथा तथा निकामं भिन्नवति विश्लिष्टवति सति आश्चर्यधाम्नः सर्वाद्भुतनिधानस्य तव मुखरागो मुखविकासो भेदं विश्लेषं न प्रयात इति यत् । इदमेवातिमहदाश्चर्य खलु । मुखस्याप्यङ्गत्वेन तद्रागस्याप्यगरागत्वादिति भावः । अत्र विलेपनविकासाख्ययोरङ्गरागयोरेवानाध्यवसायेन विरोधः । भेदाननुसंधानत्वेनाविरोध इति श्लेषमूलातिशयोक्तयुस्थापितो विरोधाभासोऽलंकारः ॥
प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः ।
स्फुटमिति सविशकं कान्तया तुल्यवर्णः। चरणतलसरोजाक्रान्तिसंक्रान्तयासौ
वपुपि नखविलेखो लाक्षया रक्षितस्ते ॥ ३२ ॥ प्रकटेति ॥ किंच प्रकटतरमतिस्फुटमिममेनं नखविलेखम् । अन्या रमण्यो निजसपल्यः स्फुटं मा द्राक्षुः न पश्यन्तु । दृशेलुङ् 'न दृशः' इति क्साभाव. पक्षे सि चि वृद्धिः । इति बुद्ध्या कान्तया सविशङ्कं यथा तथा तुल्यवर्णो लाक्षासमानवर्णः । विवर्णस्य दुरपह्नवत्वादिति भावः । असौ ते तव वपुषि नखविलेखो नखव्रणश्वरणतलं सरोजमिवेत्युपमितसमासः । आक्रान्तिलिङ्गात्तस्या आक्रान्त्या आघातेन संक्रान्तया लाक्षया रक्षितो गुप्तः । आच्छादित इत्यर्थः । हन्त सा तु पापीयसी लाक्षा स्वयमेव सर्वदुर्वृत्तपिशुनेति भावः । अत्र नख. दिलेखस्य लाक्षासावात्तदेकतापत्तेः सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरै कता' इति लक्षणात् ॥
जदवितथमवादीयन्मम त्वं प्रियेति
प्रियजनपरिमुक्तं यदुकूलं दधानः । मदाधिवसतिमागाः कामिनां मण्डनश्री
जति हि सफलत्वं वल्लभालोकनेन ॥ ३३ ॥ तदिति ॥ किं च मम त्वमेव मियेति यदवादीरवोचः । वदेलुङि वदव्रज-' इत्यादिना वृद्धिः । तदवितथं सत्यम् । कुतः । यद्यस्मात् प्रियजनेन परिमुक्तं दुकूलम् । तदीयमित्यर्थः । दधानः धारयन्नित्यर्थः । दधान इत्यत्र 'वसानः' इति पाटे वसान आच्छादयन् । वस आच्छादनार्थालटः शानजादेशः । स त्वं मदधिवसतिं मम निवासमागाः प्राप्तः । 'इगो गा लुङि' । युक्तं चैतदित्याह