________________
२७६
शिशुपालवधे
कामिनां मण्डनश्रीवल्लभानां प्रेयसीनामालोकनेन सफलत्वं व्रजति हि । अप्रिया चेत्कथमीदृशी मे संभावनेति भावः । अर्थान्तरन्यासः ॥
नवनखपदमङ्गं गोपयस्यंशुकेन ___ स्थगयसि पुनरोष्टं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प
नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ३४ ॥ नवेति ॥ किंच नवानि नखपदानि यस्मिंस्तदङ्गं वपुरंशुकेन गोपयसि छादयसि । गुपेश्चौरादिकात्स्वाथै णिच् । दन्तेन दएमोष्टं पुनरोष्टं तु पाणिना स्थग यसि छादयसि । स्थगिरपि चौरादिकः । दिशिदिशि प्रतिदिशम् । विनत्यधैऽव्ययीभावः । 'अव्ययीभावे शरत्पनृतिभ्यः' इति समासान्तष्टच्प्रत्ययः । विसपन्प्रसर्पन अपरस्त्रीसङ्गशंसी स्यन्तरसङ्गसूचकः । अन्यप्रभवत्वात्तस्येति भावः । नवः परिमलाख्यो गन्धः परिमलगन्धः । 'विमर्दोत्थे परिमलः' इत्यमरः । केन केनोपायेन वरीतुमाच्छादयितुम् । 'वृतो वा' इतीटो दीर्घः। शक्यः । न केनापि शक्य इत्यर्थः । अत्र नखदन्तक्षतयोरङ्गौष्टाच्छादने विसर्पणस्य बन्धानाच्छाद्यन्ये च विशेषगगत्या हेनुकत्वाकादयलिङ्गडये सजातीयसंकरः ॥
इति कृतवचनार्याः कश्चिद भ्येत्य विभ्य
इलितनयनबारेयाति पादावनामम् । करुणमपि समर्थ मानिना मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ३५ ॥
कुलकम् ।। इतीति ॥ इति पूर्वोक्तश्लोकचतुष्टयरीत्या कृतवचनायाः कृतोपालम्भायाः गलितनयनवारेरधैर्यान्मुक्ताश्रोः । प्रेयस्या इति शेषः । कश्चिन्नायको बिभ्यत्रस्यन् । 'नाभ्यस्ताच्छतुः' इति नुमभावः । अभ्येत्यागत्य पादयोरवनाममवनात याति । प्रणामेन प्रसादयतीत्यर्थः। ननु कथमीमार्दवं तथाहंकारिणस्तस्य रोदनमात्रेण तत्राह-करुणमिति । तथाहि विग्रहेषु प्रणयकलहेषु योषितां फरुणं दीनमपि रुदितमश्रुमोचनं मानिनामहंकारिणां पुंसां मानभेदेऽहंकारनिरासे समर्थ शक्तमस्त्रं साधनमुदितमुक्तम् । वदेः कर्मणि क्तः 'वचिस्तपि-' इत्यादिना संप्रसारणम् । दीने प्रणयिजने पुंसां कोऽहंकार इति भावः । अर्थान्तरन्यासः । एषा च खण्डिता नायिका । 'नीत्वान्यत्र निशां प्रातरागते प्राणवलभे । अन्यासंभोगचिह्नस्तु खण्डितेाकषायिता ॥' इति लक्षणात् । नायकस्तु पृष्टः । 'व्यक्ताङ्गो निभयो पृष्टः' इति लक्षणात् । न चेह बिभ्यद्विशेषणविरोधैः । आगमनकालेऽनिर्भीकताया एव लक्षणोपयोगात् । अन्यथा वैरं स्यादिति भावः । अयं च सहृदयः । अन्यथा रसाभास इत्याहुः ॥