________________
२७७
एकादशः सर्गः।
२७७ मदमदनविकासस्पष्टधार्योदयानां
रतिकलहविकीर्णभूषणैरर्चितेषु । विदधति न गृहेषत्फुल्लपुष्पोपहारं
विफलविनययत्नाः कामिनीनां वयस्साः ॥ ३६ ॥ मदेति ॥ मदमदनयोर्विकासेन विजृम्भणेन स्पष्टो धाय॑स्योदय आविर्भावो यासां तासां कामिनीनां रतिरेव कलहस्तस्मिन्विकीर्णैरितस्ततो विक्षिप्तैर्भूषणैरचिंतेषु गृहेषु वयस्याः स्निग्धपरिचारिकाः विनीयन्तेऽस्मिन्निति विनयोऽधिकारः तत्र यत्नो विफलो यासां ता विफलविनययत्नाः निष्फलस्वाधिकारोद्योगाः सत्यः उत्फुल्लैः पुष्पैरुपहारं पूजां न विदधति न कुर्वन्ति । अत्र समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् । तेन तासां तेष्वाभरणेषु भुक्तवस्त्रमाल्यादिवन्निर्माल्यबुद्धिव॑न्यते ॥ करजदशनचिह्न नैशमङ्गेऽन्यनारी
जनितमिति सरोषामीjया शङ्कमानाम् । स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव
स्त्रियमनुनयतीत्थं बीडमानां विलासी ॥३७॥ करजेति ॥ विलसनशीलो विलासी । 'वौ कषलस-' इत्यादिना घिनुण्प्रत्ययः । अङ्गे निजाङ्गे निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' इत्यण्प्रत्ययः । करजदशनचिह्न नखदन्तक्षतमन्यनारीजनितं सपत्नीकृतमिति शङ्कमानां विश्वसतीमत एवेर्ण्यया अक्षमया सरोषां स्त्रियं निजवधूं मत्तया मदमूढया त्वयैवैतहत्तमेवं कृतं खलु न स्मरसि नाभिजानासि किमिति काकुः । इत्थमनेन प्रकारेण बीडमानां स्वकृतत्वप्रत्यभिज्ञानाल्लजितां सतीमनुनयत्यङ्गीकारयति । स्वमौग्ध्यव्याघातो निर्वेदश्च लज्जया व्यज्यते ॥
कृतगुरुतरहारच्छेदमालिङ्गय पत्यौ
परिशिथिलितगात्रे गन्तुमापृच्छमाने । विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दु
स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ३८॥ - कृतेति ॥ कृतो गुरुतरस्य हारस्य छेदो यस्मिंस्तत्तथा आलिङ्गय परिशिथिलितगाने शिथिलीकृताङ्गे पत्यौ भर्तरि गन्तुमापृच्छमाने आमन्त्रयमाणे सति । 'आङि नुप्रच्छयोः' इत्युपसंख्यानादात्मनेपदम् । कर्तरि लटः शानजादेशः । तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । अबलायाः स्तनयुगं कर्तृ । विगलिता निःसृता नवमुक्ता नूतनमौक्तिकान्येव स्थूलबाष्पाम्बुबिन्दवो यस्मिन्कर्मणि
शिशु० २४