________________
२७८
, शिशुपालवधे:
तत्तथा रोदितीव विरहासहिष्णुतया रोदनं करोतीवेत्युत्प्रेक्षा रूपकसंकीर्णा । 'रुदादिभ्यः सार्वधातुके' इतीडागमः ॥
बहु जगद पुरस्तात्तस्य मत्ता किलाहं
चकर च किल चाटु प्रौढयोषिद्वदस्य । विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य
___ व्यपगतमदयाह्नि वीडितं मुग्धवध्वा ॥ ३९ ॥ बहिति ॥ अति दिवसे व्यपगतमदया मुग्धवधवा सखीभ्यो विदितम् । रात्रौ त्वयेत्थं कृतमिति सखीभिराख्यातमित्यर्थः । रात्रिवृत्तम् । रात्रौ कृतं स्वचेष्टितमित्यर्थः । मत्ता मदमूढा अहं तस्य प्रियस्य पुरस्तादने बहु अनेकं जगद किल गदानि स्म । किलेत्यैतिह्ये । अत एव 'परोक्षे लिट्' 'णलुत्तमो वा' इति पक्षे णित्त्वाभावावृद्ध्यभावः । च पुनः प्रौढयोषिता तुल्यं प्रौढयोषिद्वदित्युपमा । 'तेन तुल्यम्-' इति वतिप्रत्ययः । अस्य प्रियस्य चाटु प्रियवचनं चकर किल अकार्ष किल । लिडादिपूर्ववद्गुणो विशेषः । इति विचिन्त्य विमृश्य व्रीडितं लज्जितम् । भावे क्तः । निजकार्यप्रकाशेन लजान संचारी भावः । भावनिबन्धनात्प्रेयोऽलंकारः॥
अरुणजलजराजीमुग्धहस्ताग्रपादा
बहुलमधुपमालाकजलेन्दीवराक्षी ।
अनुपतति विरावैः पत्रिणां व्याहरन्ती .. रजनिमचिरजाता पूर्वसंध्या सुतेव ॥ ४०॥
अरुणेति ॥ अरुणजलजराज्येव रक्तकमलश्रेण्येव मुग्धं सुन्दरं हस्तानपादं हस्तौ च अग्रपादौ च यस्याः सा बहुलं मधुपमालाकजलं कजलमिव मधुपमाला ययोस्ते अक्षिणी इन्दीवरे इव यस्याः सा बहुलमधुपमालाकजलेन्दीवराक्षी पत्रिणां पक्षिणां विरावैाहरन्ती आलपन्ती । 'व्याहार उक्तिर्लपितम्' इत्यमरः । अचिरजाता सद्योभवा बाला च पूर्वसंध्या प्रातःसंध्या सुतेव पुत्रीव रजनिमनुपतत्यनुधावति । जननीमिवेत्यर्थः । इह विरावैाहरन्तीति व्यधिकरणपरिणामः तत्संकीर्णेयमुपमा ॥
प्रतिशरणमशीर्णज्योतिरन्याहितानां
विधिविहितविरिन्धैः सामिधेनीरधीत्य । कृतगुरुदुरितोषध्वंसमध्वयुवर्यै- हुँतमयमुपलीढे साधु सांनाय्यमग्निः ॥४१॥
प्रतीति ॥ अग्निराहितो यस्तेषामन्याहितानाम् । 'वाहितान्यादिषु' इति निष्ठायाः परनिपातः । प्रतिशरणं प्रतिगृहम् । 'शरणं गृहरक्षित्रोः' इत्यमरः ।