________________
एकादशः सर्गः ।
1
अशीर्णज्योतिरक्षतार्चिरयमग्निराहवनीयः विधिना 'यज्ञकर्मण्यजपन्यूंखसामसु' इत्यादिशास्त्रोक्तरीत्या विहिता यथायोगमुच्चारिता विरिब्धाः स्वरा एकश्रुत्यादयचत्वारो यैस्तैः । 'क्षुब्धस्वान्त' इत्यादिना 'रेस्ट शब्दे' इति धातोः स्वरे विधिशब्दो निष्टान्तोऽनित्वेन निपातितः । अध्वर्युवयैः ऋत्विक्श्रेष्ठैः । ऋवि विशेपवाचिनाध्वर्युशब्देन ऋत्विया लक्षणात् । यद्वा अध्वर्युर्वेर्यो मुख्यो येषां तैरध्वर्युप्रमुखैः चतुर्भिर्ऋत्विग्भिरित्यर्थः । तस्मादर्श पौर्णमासयोर्यज्ञऋत्वोश्चत्वार ऋत्विज इति श्रवणात् । दर्शश्चायं सत्यचैव सांनाय्यविधानादिति । सामिधेनीः '" वो वाजा' इत्यादिका अग्निसमिन्धनीर्ऋचोऽधीत्य पठित्वा । 'ऋक्सामिधेनी धाय्या च या स्यादसिमिन्धने' इत्यमरः । सामिधेनीग्रहणं याज्यापुरोनुवाक्यादिमत्रान्तराणामप्युपलक्षणम् । कृतो गुरुतरदुरितानामोघस्य ध्वंसो यस्मिन्कणि तद्यथा तथा साधु सम्यग्युतं देवतोद्देशेन त्यक्तं संनीयत इति सांनाय्र्य हविर्विशेषम् | 'ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया' मिति विहिते दधिपयसी इत्यर्थ: । 'पाय्यसांनाय्य निकाय्य -' इत्यादिना हविर्विशेषे संपूर्वान्नयते
न्तादायादेशोपसर्गदीर्धनिपातः । उपलीढे आस्वादयति । 'लिह आस्वादने' इति धातोः स्वरितेत्वाटि डि टेरेवं दत्त्वढलोपदीर्घाः । अत्राग्नेः सांनाय्योपले हनस्योत्तर कालभावित्वेऽपि तदुपलक्षितस्य कर्मण उदिते आदित्ये पौर्णमास्यात प्रक्रमति प्रागुदयादमावास्याया इति शास्त्रात्तत्कालप्रक्रान्तस्य वर्तमानत्वात्तस्यापि वर्तमानताव्यपदेशः । एतच्चाहिताग्नित्वमात्रेण कालविशेषा. नादरेणोक्तमिति पूर्वोक्तचन्द्रोदयाद्यविरोधः । अथवा 'उदिते जुहोत्यनुदिते जुहोति प्रातर्जुहोत्यग्निहोत्रं' इति तत्कालत्वात्सामिधेनीसांनाय्यशब्दयोर्म हविर्मा त्रपरत्वमाश्रित्याग्निहोत्रपरत्वेन व्याख्येयम् । तस्मादग्निहोत्रस्य यज्ञऋत्वोः एक ऋत्विगित्येकाध्वर्युकत्वेऽध्वर्युवर्यैरिति बहुवचनं यजमानबहुत्वादुपपद्यत इत्याहुरित्यलं छान्दसगोष्टीव्यसनेन । वृत्यनुप्रासोऽलंकारः स्पष्ट एव ॥
प्रकृतजपविधीनामास्यमुद्रमिदन्तं मुहुरपिहितमोठ्यैरक्षरैर्लक्ष्यमन्यैः । अनुकृतिमनुवेलं घट्टितोडितस्य
व्रजति नियमभाजां मुग्धमुक्तापुरस्य ॥ ४२ ॥
२७९
प्रकृतेति ॥ प्रकृतजपविधीनां प्रकान्तजपकर्मणां नियमभाजां तपस्विनां संबन्धे ओष्ठे भवैरोष्यैः । ‘शरीरावयवाच्च' इति यत्प्रत्ययः । अक्षरैर्वणैः । उपूपध्मानीयैरित्यर्थः । ‘उपूपध्मानीयानामोौ' इत्यनुशासनात् । मुहुरपिहितमावृतमन्यैरनोष्ठयैरक्षरैर्लक्ष्यं दर्शनीयं अत एवोद्रश्मय उद्द्वतांशवो दन्ता यस्य तदास्यं मुखमनुवेलं प्रतिक्षणं घट्टितोद्वहितस्य प्राणित्वान्मुहुर्घटितविघटितस्य । विशेषणसमासः । मुग्धं सुन्दरं यन्मुक्तानां मुक्ताफलानां पुटं कोटिः । शुक्तिरिति या