________________
चतुर्दशः सर्गः।
३४५ शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलमवर्णसंकरैः। पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्विजन्मनाम् ॥३७॥ शुद्धमिति ॥ असौ नृपः शुद्धमाचारपूतम् । अन्यत्र विभक्तिविपरिणामेन शुद्धैरकलकैः । श्रुतिविरोधि वेदविरुद्धं न भवतीत्यश्रुतिविरोधि शास्त्रं बिभ्रतमात्मनि धारयन्तम् । सकलवैदिकशास्त्राभिज्ञमित्यर्थः । 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । अन्यत्र श्रुत्यविरोधिभिः पुराणादिभिः । वाच्यमानमन्वयगुणा. दिक्रमेण प्रस्तूयमानम् , अन्यत्र वाच्यमानैर्द्विजगणेन व्याख्यायमानैरित्यर्थः । वचेश्चौरादिकाकर्मणि लटः शानजादेशः। द्विजन्मनां ब्राह्मणानां गणं अवर्णसंकरैर. संकीर्णाक्षरैः, अन्यत्र जातिसंकररहितमिति विपरिणामः । पुस्तकैः समं पुस्तकाक्षरैक्यैिः सह अशृणोत्। दानकाले प्रत्येकं ब्राह्मणानां गुणान्गोष्टीश्च श्रुतवानित्यर्थः । मुखस्थ विद्यानामपि पुस्तकधारणं विलक्षणत्वेनोक्तमित्यदोषः। अन्यत्र पुस्तकैः समं द्विजगुणमशृणोदितिसंबन्धिभेदेन भिन्नयोः श्रवणयोरभेदाध्यवसायभेदेऽभेदरूपातिशयोक्तिचमत्कारिणी द्विजानां प्रकृतत्वात्पुस्तकानीव द्विजानिति वैवक्षिकोपमानोपमेयभावपर्यवसायिनी श्लेषसंकीर्णसहोक्तिरलंकारः। 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेप्यते' इति लक्षणात् । केचित्पुस्तकैः समं वाच्यमानमिति योजयित्वा पुस्तकेषु द्विजगणान् , लेख्येष्वायतमानानिति व्याचक्षते । तैः पुस्तकेषु शास्त्रभरणासंभवादवर्णसंकरेति श्लिष्टवि. शेषणावगतप्रकृतश्लेषभङ्गः पुस्तकानां वाचनकरणत्वात्समादिशब्दवैयर्थ्यमुक्तस. होत्यलंकारभ्रंशश्चेत्येवमादयो दोषा दुस्तरा इत्यलं विस्तरेण ॥ तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।
आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥३८॥ तदिति ॥ अनिवारिता अप्रत्याख्याता अतिथयो येन स आश्रमाणां ब्रह्मचर्यादीनां गुरुनियन्ता स राजा । आ समन्ताजुहोत्यस्मिन्नित्याहवनं यागम् । जुहोतेल्युट । द्रष्टुमुपेयुषामागतानाम् । अत एव प्रणीतमनसां सत्कर्मदर्शनाद्धृ. टचित्तानामग्रजन्मनाम् । अतिथिषु साध्वातिथेयमतिथिसत्कारम् । 'पथ्यतिथि-' इत्यादिना दन्प्रत्ययः । कतु नाश्रमन्न श्रान्तः। श्राम्यतेः पुषादित्वाल्लुङि च्लेरङादेशः । अवानिवारितातिथित्वस्य विशेषणगत्या श्रमनिषेधहेतुत्वारकाव्यलिङ्गं तदनुमालेन संसृज्यते ॥
मृग्यमाणमपि यदुरासदं भूरिसारमुपनीय तत्स्वयम् । आसतावसरकाशिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ ३९ ॥ मृग्यमाणमिति ॥ यद्नं मृग्यमाणमन्विष्यमाणमपि दुरासदं दुर्लभम् । भूरिसारं महासारमुपदीकृतमुपायनीकृतम् । मनसा यथासंकल्पितमित्यर्थः । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । तद्नं श्रेष्ठवस्तु 'रत्रं । श्रेष्ठे मणा.