________________
३४६
शिशुपालवधे वपि' इति विश्वः । नृपाः स्वयमुपनीय तस्य राज्ञोऽवसरकाङ्क्षिणः सेवावसर प्रतीक्षमाणा बहिरासत स्थिता इत्यैश्वर्यातिशयोक्तिः । अत्र रत्ने उपदात्वस्यारो. प्यमाणस्य प्रकृतोपयोगात्परिणामालंकारः ॥
एक एव वसु यद्ददौ नृपस्तत्समापकमतर्यंत क्रतोः। त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥४०॥
एक इति ॥ एक एव नृपो यद्वसु धनं ददौ । उपायनमिति भावः । तद्धनमेव क्रतोः समापकं संपूरकमतय॑त । दक्षिणादानादिसर्वक्रतुव्ययपर्याप्ततया तर्कितमित्यर्थः । तपःसुते धर्मपुत्रे त्यागशालिनि सति सर्वपार्थिवधनान्यपि क्षयं व्ययं ययुः । अत्रैकपार्थिवधनस्य ऋतुसमापकत्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तयोश्च सापेक्षत्वात्सजातीयसंकरः ॥
प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः। स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥४१॥ प्रीतिरिति ॥ ददनो दानं कुर्वतोऽस्य राज्ञस्तथा तेनैव प्रकारेण राजोपायनानामर्थिसात्करणेनैव प्रीतिरभवदासीत् । न तु कोशगृहार्पणेनेत्यर्थः । कुतः । येन प्रकारेण तस्य राज्ञः प्रियचिकीर्षवः प्रियं कर्तुमिच्छवः । मधुपिपासुभृतित्वाद्वितीयासमासः । नृपाः स्पर्शितैः प्रतिपादितैः । 'स्पर्शनं प्रतिपादनम्' इत्यमरः। उपायनैरुपहारैरधिकं यथा तथा मुदमागमन्प्राप्ताः । तथैव प्रभुप्रीतिसिद्धेः सोपायनानां सिद्धि नियोगलाभाञ्चेति भावः । अधिवेश्म वेश्मनि निहितैरुपायनर्मुदं नागमन् । तथोक्तप्रयोजनासिद्धेरिति भावः । येनैव राज्ञा मोदः स्वस्य च महान्धर्मलाभः तेनोपायनानामर्थिसास्करणादेव राज्ञः प्रीतिरासीत् न कोशगृ. हार्पणादित्यर्थः । अत एव दानसंग्रहयोः प्रकृतयोः प्रीतेः संग्रहपरिहारेण दान एव नियमनात्परिसंख्यालंकारः । 'एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्ये'ति लक्षणात् । एतेन सर्वस्वदानं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥
यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपोऽपरैौरवेण ददृशेतरामसौ ॥ ४२ ॥ यमिति ॥ लघूकृता अल्पीकृता अहिताः शत्रवो येन सः । स राजा शिष्येण तुल्यं शिष्यभूतम् । 'भूतं मादौ पिशाचादौ न्याय्ये सत्योपमानयोः' इति विश्वः । सुप्सुपेति नित्यसमासः । यं नृपं लघुन्यप्यल्पेऽपि यज्ञीयपशुरक्षणादिकर्मण्यशिषदाज्ञापितवान् । 'सर्तिशास्त्यतिभ्यश्च' इति लुङि च्लेरङादेशः 'शास इदहलोः' इतीकारः । असौ कर्मकरो नृपः अपरैस्ततोऽन्यैर्नृपतिभिः सस्पृहं अहो संमान इति साभिलाषं गौरवेण ददृशेतरामतिशयेन दृष्टः । दृशेः कर्मणि लिट् 'तिङश्च' इति तरप्प्रत्यये 'किमेत्तिङव्ययघादाम्वप्रकर्षे' इत्यामुप्रत्ययः । तद्धितश्वासर्व विभतिः' इत्यव्ययसंज्ञा । अत्र कर्मकरनृपस्येतरनृपकर्तृकविशिष्टदर्शनकर्मत्वासंबन्धे.