________________
चतुर्दशः सर्गः।
३४७ ऽपि संबन्धोक्तेरतिशयोक्तिः । तया राज्ञो निरङ्कुशाज्ञत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥
आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि । वाचि रोपितवतामुना महीं राजकाय विषया विभेजिरे ॥४३॥
आयेति ॥ आद्यकोल आदिवराहः । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । तेन तुलितां कल्पादौ उद्धृताम् । तथापि प्रकम्पनैः प्रक्षोभकैर्हिरण्याक्षप्रमुखैः कम्पितां क्षोभितां महीम् । अनीहगात्मन्यनेवंरूपायां केनाप्यकम्पितायामस्खलितायां वाचि रोपितवता स्थापितवता । स्थिरेण रोपणेन स्थिरीकुर्वतेत्यर्थः । अमुना राज्ञा राजकाय राज्ञां समूहाय । 'गोत्रोक्ष-' इत्यादिना वुञ्प्रत्ययः । विषया देशाः । 'नीवृजनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । विभेजिरे अस्थायमिति विभक्ताः प्राक् विजयोद्धृतान्राज्ञः पुनः पदेपु स्थापयामासेत्यर्थः । अत्रादिवराहो महीमुद्धृतवानेव वाचैवासौ तु निरातकं स्थापितवांश्चेत्युपमानादुपमेयस्याधिक्यकथनाध्यतिरेकालंकारः ॥ . आगताम्यवसितेन चेतसा सत्वसंपदविकारिमानसः। तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः॥४४॥
आगतादिति ॥ सत्त्वसंपदा गुणाधिक्येन अविकारिमानसः । लोभाभिभवायामनुपलुतचित्त इत्यर्थः । 'सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः' इति विश्वः । असौ राजा तत्र तस्मिन्नासमन्ताजह्वत्यस्मिन्नित्याहवो यागः । 'ऋदो. रप्' इति जुहोतेरप्प्रत्यये गुणावादेशौ । आहूयन्ते शत्रवो यस्मिन्नित्याहवो युद्धम् । 'आङि युद्धे' इति द्वयतेरापूर्वादप्प्रत्ययः संप्रसारणम् । 'आहवो यागयुद्धयोः' इति विश्वः । महांश्चासौ स च महाहवस्तस्मिन्महाहवे व्यवसितेन निश्चितेन धनलाभं निश्चितवता । अन्यत्र शत्रोमृत्युरेवेति निश्चितवतेत्यर्थः । व्यवपूर्वात्स्यतेः सकर्मकत्वादप्यविवक्षिते कर्मकर्तरि क्तः । 'प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । चेतसा आगतात् । चेतसा स्वयं निश्चित्यागतादित्यर्थः । अधिनो याचकात् । शत्रुरेव शात्रवः । स्वार्थेऽणप्रत्ययो राक्षसवत् । तस्मादिव परामुखो नाभवत् । 'आहवेवनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥' इति मनुस्मरणादिति भावः । श्लेषसंकीर्णेयमुपमा ।
नक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् । नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः॥४५॥ नक्षतेति ॥ स राजा अर्थिनं याचकं मुहुरवज्ञयानादरेण नैक्षत । तर्हि विल. म्बितं किं नेत्याह-याचितस्तु प्रार्थित एव कालं नाक्षिपन्न यापयामास । याचकबहुत्वात् । तल्पिदाता नेत्याह-अल्पमपि नादित न ददौ । किंतु यथार्थिकाममिति भावः । ददातेलुङि तङि 'स्थाध्वोरिच्च' इतीकारः 'हस्वादङ्गात्' इति स