________________
३४८
शिशुपालवधे लोपः । तहिं विकत्थनः किं नेत्याह-न व्यकत्थयदात्मश्लाघां न चकार । 'कत्थ श्लाघायाम्' । किंच इष्टं प्रियमपि दत्तं वस्तु नान्वशेत नानुतप्तवान् । दत्तानु. तापस्यातिप्रत्यवायहेतुत्वादिति भावः । अत्रार्थिसंदोहयाजादिबाहुल्यरूपकारणसामग्र्येऽपि विलम्बादिकार्यानुत्पत्तेर्विशेषोक्तिरलंकारः । 'तत्सामग्र्यादनुत्पत्तिविशेषोक्तिर्निगद्यते' इति लक्षणात् । तथा दातुः सात्विकत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् । वर्षकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूपरम् ॥ ४६॥ निर्गुण इति ॥ दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । 'स्युर्व. दान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे ।' 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । भूपतेः . पुरोऽग्रे निर्गुणस्तपोविद्यादिगुणहीनोऽपि विमुखो निष्फलो नाभवत् , किंतु पूर्णकाम एवाभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । तत एव तेनापात्रवर्षदोषोऽपि न करुणवृत्तरित्याशयेन दृष्टान्तमाह-वर्षकस्येति । अपो जलानि । 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः । वर्षकस्य वर्षणशीलस्य । 'लषपत-' इत्यादिना उकञ्प्रत्यये लघूपधगुणः । कृतोन्नतेः कृतोदकस्याम्बुदस्य । अम्बुदेने. त्यर्थः । ‘कृत्यानां कर्तरि वा' इति षष्टी । 'स्यादूषः क्षारमृत्तिका' इत्यमरः । तद्वत्क्षेत्रमूषरम् । 'ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली' इत्यमरः । 'ऊपशुषिमुष्कमधो रः' इति रप्रत्ययः । परिहार्य त्याज्यं किम् । नेत्यर्थः । अत्र पर्जन्यभूपालयोर्वाक्यभेदेन बिम्बप्रतिबिम्बतया समानधर्माभिधानादृष्टान्तालंकारः ॥
प्रेम तस्य न गुणेषु नाधिकं न स वेद न गुणान्तरं च सः। दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ४७ प्रेमेति ॥ तस्य राज्ञो गुणेष्वधिकं प्रेम नेति न, किंत्वस्त्येवेत्यर्थः । राजा गुणान्तरं गुणविशेषं न वेद न वेत्ति स्मेति न च, किंतु वेदैवेत्यर्थः । 'लट् स्मे' इति भूतार्थे लट् 'विदो लटो वा' इति णलादिः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः । संभावितयोरविमर्शा देवागुणप्रीतिज्ञानयोनिषेध इति भावः । तदपि तथापि । पृथिव्या ईश्वरः पार्थिवः । 'सर्वभूमिपृथिवीभ्यामणजी' इत्यञ्प्रत्ययः । दित्सया दातुमिच्छया । सर्वपात्रदानकौतुकेनेत्यर्थः । 'सनि भीमा-' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । अर्थिन याचकं गुणी गुणवान् अगुण्यो नायं गुणवानिति न व्यजीगणन्न गणयति स्म । गुणप्रियोऽपि गुणज्ञोऽपि दानशौण्डोऽर्थितया गुण्यगुण्यौ न गणयामासेत्यर्थः । गतेणी चङि 'ई च गणः' इत्यभ्यासस्य विकल्पादीकारः । अत्र गुणप्रियत्वगुणज्ञस्वरूपकारणसामग्येऽपि गुणागुणविमर्शरूपकार्यानुत्पत्तेः दित्सयेत्युक्तनिमित्ताविशेषोक्तिरुक्तलक्षणात् ॥